________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य चतुर्थः पादः शरः पुच्छेऽस्याः शरपुच्छी // 42 // पक्षाच्चोपमा[ना]देः // 2 // 4 // 43 // उपमानपूर्वात् पक्षशब्दात्पुच्छाच स्त्रियां डीः स्यात् / उलूकपक्षी शाला / उलूकपुच्छी सेना // 43 // अ० उलूकस्येव पक्षावस्या उलूकपक्षी / उलूकस्येव पुच्छमस्या उलूकपुच्छी // 43 // क्रीतात्करणादेः // 2 // 4 // 44 // करणादेः क्रीतान्तादकारान्तात् स्त्रियां ङीः स्यात् / अश्वक्रीती वस्त्रक्रीती धनक्रीती। मनसाक्रीतीत्यत्रालुप्समासः / करणग्रहणं किम् ? सुक्रीता दुष्क्रीता / कथं 'सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी' इति ? धनं च सा क्रीता चेति कर्मधारयोऽयम् / करणविवक्षायामपप्रयोग एव // 4 // ___अ० करणं कोऽर्थः ? तृतीयाविभक्त्यन्तं पदं आदौ यस्य स करणादिः / करणमादिरवयवो वा यस्य ? अश्वेन क्रीयतेस्म अश्वक्रीती / एवं वस्त्रेण धनेन क्रीयतेस्म ‘क्तक्तवतू' (5 / 1 / 174) / आदिग्रहणं किम् ? अश्वेन क्रीता। नहि अत्र करणं क्रीतान्तस्य नाम्न आदिरवयवोऽस्ति ऐकपद्याऽभावात् / इयं व्यावृत्ति-अवचूरिः दुष्क्रीता इत्यस्याग्रे ज्ञातव्या / अग्रे कथं सा हि तस्येत्यादि / शोभनं क्रीयतेस्म सुक्रीता / दुष्टं च क्रीयतेस्म दुष्क्रीता'निर्दुर्बहिराविष्प्रादुश्चतुराम्' (2 / 3 / 9) इति रस्य षत्वम् // 44 // क्तादल्पे // 2 // 4 // 45 // करणादेः क्तान्तानाम्नोऽल्पेऽर्थे ङीः स्यात् / अम्रविलिप्ती द्यौः / सूपविलिप्ती स्थाली। अल्प इति किम् ? चन्दनानुलिप्ता स्त्री // 45 // अ०. अभ्रविलिप्तीत्यादि-अल्पेन अभ्रेण विलिप्यतेस्म अभ्रविलिप्ती (द्यौः) अल्पाऽभ्रमाकाशमित्यर्थः / दिवः प्रथमासिः / 'दिव औः सौ' (2 / 1 / 117) अन्त्यस्य औ आदेशः / अल्पेन सूपेन विलिप्यतेस्म अल्पसूपा इत्यर्थः / अनल्पेन चन्दनेन लिप्ता इत्यर्थः // 45 / / स्वाङ्गादेरकृतमितजातप्रतिपन्नाद्बहुव्रीहेः // 2 // 4 // 46 // स्वाङ्गादेः कृतादिवर्जक्तान्ताबहुव्रीहेः स्त्रियां ङीर्वा स्यात् / शङ्कभिन्नी ऊरुभिन्नी केशविलूनी गलकोत्कुत्ती। कृतादिवर्जनं किम् ? दन्तकृता दन्तमिता दन्तजाता दन्तप्रतिपन्ना / बहुव्रीहेरिति किम् ? पादपतिता // 46 // * अ० शङ्खौ भिन्नावस्याः सा शङ्खभिन्नी / ऊरू भिन्नावस्याः / केशा विलूना अस्याः / गलकं उत्कृत्तं छिन्नमस्याः / 'जातिकालसुखादेर्नवा' (3 / 1 / 152) इति सूत्रेण क्तान्तं नाम विकल्पेन प्राग् निपतति / ततः प्रयोगद्वयं भिन्नशङ्खा शकभिन्नीत्यादि ज्ञातव्यम् / पादयोः पतिता // 46 / / अनाच्छादजात्यादेर्नवा // 2 // 4 // 47 // __ आच्छादवर्जिता या जातिस्तदादेः कृतादिवर्जक्तान्तादहुव्रीहेमर्वा [स्त्रियां] स्यात् / शाङ्गरजग्धी शाङ्गरजग्धा। अनाच्छादग्रहणं किम् ? वस्त्रं च्छन्नमस्यां वस्त्रच्छन्ना / जात्यादेरिति किम् ? मासयाता इत्यादि [अत्र कालः] / अत्रास्वाङ्गादित्वात्पूर्वेणापि न डीः / अकृताद्यन्तादित्येव-कुण्डकृता इत्यादि // 47 // अ० शाङ्गरस्य वृक्षस्य विकारः फलं शाङ्गरम् ‘दोरप्राणिनः' (6 / 2 / 49) इति मयट् / ‘फले' (6 / 2 / 58) लुक् / शाङ्गरं जग्धं भक्षितमनया शाङ्गरजग्धी जग्धशाङ्गरा / 'जातिकालसुखादेर्नव (3 / 1 / 152) इति जातिद्वारेण