________________ 190 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते गुदा / एकशफा / दीर्घवाला। भव्यभाला / सुगला / सुभला / कल्याणोखा / कल्याणगोखा / क्रोडादिभ्योऽत्र बहुवचनमाकृतिगणार्थम् / तेन किसलयकरा / मृणालभुजा इति क्रोडादिगणः / कल्याणी क्रोडा यस्याः सा / कल्याणं पाणिपादमस्याः सा कल्याणपाणिपादा / अत्र ङी किमर्थं न भवति इति पराशयः / स्वाङ्गं नास्ति इति हेतोः / वक्ष्यमाण 'नासिकोदर०' (2 / 4 / 39) इत्यत्र बहुस्वरयुक्तिबलाच्च ङीन भवतीत्यर्थः / अथ स्वाङ्गस्वरूपमुच्यते / 'अविकारोऽद्रवं मूर्तं प्राणिस्थं स्वाङ्गमुच्यते / च्युतं च प्राणिनस्तत्तन्निभं प्रतिमादिषु' // 1 // अविकार इति किम् ? बहुशोफा / अद्रवमिति किम् ? बहुकफा / मूर्त्तमिति किम् ? बहुज्ञाना / प्राणिस्थमिति किम् ? दीर्घमुखा शाला / च्युतं च प्राणिनस्थदिति किमर्थम् ? अप्राणिस्थादपि पूर्वोक्ताद्यथा स्यात् / बहुकेशी बहुकेशा रथ्या / तन्निभं च प्रतिमादिष्विति किमर्थम् ? प्राणिस्थसदृशादपि पूर्वोक्ताद्यथा स्यात्-पृथुमुखी पृथुमुखा प्रतिमा // 38 // नासिकोदरौष्ठजवादन्तकर्णश्रृङ्गाङ्गगात्रकण्ठात् // 2 // 4 // 39 // असहनविद्यानपूर्वपदेन एभ्यः स्वाङ्गेभ्यः स्त्रियां कीर्वा स्यात् / पूर्वेणैव सिद्धे नियमार्थमिदम् / तेन नासिकोदराभ्यामेव बहुस्वराभ्यां ओष्ठादिभ्य एव च संयोगोपान्त्येभ्यो भवति, नान्येभ्यः / तुङ्गनासिकी तुङ्गनासिका / कृशोदरी कृशोदरा / बिम्बोष्ठी बिम्बोष्ठा / एवं दीर्घजबी समदन्ती चारुकर्णीत्यादि // 39 // ___अ० पृथुजघना / सुललाटा / दृढहृदया इत्यादौ बहुस्वरत्वानियमविधानात्, सुपार्था इत्यादौ तु संयोगोपान्त्य. नियमविशेषकरणाच्च ‘असहनविद्यमानपूर्वपदात् स्वाङ्ग०' (2 / 4 / 38) इत्यनेनापि सूत्रेण ङीर्न भवति इति नान्येभ्य इत्यस्य भावार्थो ज्ञातव्यः / असहनविद्यमानपूर्वपदादित्येव-सहनासिका अनासिका विद्यमाननासिका; सोदर अनुदरा विद्यमानोदरा इति / बिम्बाकारौ ओष्ठौ यस्याः सा बिम्बौष्ठी बिम्बोष्ठी, बिम्बोष्ठा / अन्न 'वौष्ठौतौ समासे' (1 / 2 / 17) इति सूत्रेण विकल्पेन बिम्ब अकारलोपः / बिम्बौष्ठी इति सिद्धिर्विस्तरेण 'वौष्ठौतौ समासे' इत्यत्र सूत्रे लिखिताऽस्ति तत्र गवेष्या / दीर्घजङ्घा समदन्ता चारुकर्णा इति विकल्पपक्षे उदाहरणावली / तथा तीक्ष्णशृङ्ख तीक्ष्णशृङ्गा, मृद्वङ्गी मृदङ्गा, सुगात्री सुगात्रा, स्निग्धकण्ठी स्निग्धकण्ठा इति शेषाणि उदाहरणानि ज्ञातव्यानि / / 39 // नखमुखादनाम्नि // 2 // 4 // 40 // सहादि [सहनविद्यमान] वर्जपूर्वपदाभ्यां स्वाङ्गाभ्यां नखमुखाभ्यां स्त्रियां डीर्वा स्यादनाम्नि [असंज्ञायाम्।। [सूर्पाकारा नखा यस्याः सा] सूर्पनखी सूर्पनखा / [चन्द्रवन्मुखं यस्याः सा] चन्द्रमुखी चन्द्रमुखा / अनाम्नि इति किम् ? सूर्पनखा वज्रणखा गौरमुखा कालमुखा-संज्ञाशब्दाः [राक्षसीनामानि] एते // 40 // अ० सूर्पणखा अत्र नामविषये 'पूर्वपदस्थानाम्न्यगः' (2 / 3 / 64) इति णत्वम् / अनाम्नि न णत्वम् // 40 // पुच्छात् // 2 // 4 // 41 // सहादि [सहनश्विद्यमान] वर्जपूर्वपदात् स्वाङ्गात् पुच्छात् स्त्रियां ङीर्वा स्यात् / दीर्घपुच्छी दीर्घपुच्छा // 4 // अ० असहनविद्यमानादित्येव-सपुच्छा अपुच्छा विद्यमानपुच्छा // 41 // कब[व]रमणिविषशरादेः // 2 // 4 // 42 // कबरादिपूर्वात् पुच्छात् स्त्रियां ङीः स्यात्, नित्यम् / पुनर्विधानं नित्यार्थम् / कबरपुच्छी मणिपुर्छ विषपुच्छी शरपुच्छी // 42 // अ० कबरं कर्बुरं वा पुच्छमस्याः कबरपुच्छी / मणिः पुच्छेऽस्या मणिपुच्छी / विषं पुच्छेऽस्या विषपुच्छी