________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य चतुर्थः पादः 189 शक्तेः स्त्रियां शस्त्रे ङीर्वा स्यात् / शक्ती / शक्तिः / शस्त्र इति किम् ? शक्तिः [सामर्थ्यम्] // 34 // स्वरादुतो गुणादखरोः // 2 // 4 // 35 // स्वरात्परो य उकारः सामर्थ्यादेकवर्णव्यवहितस्तदन्तागुणवचनात् खरुवर्जात् स्त्रियां कीर्वा स्यात् / पट्वी। पटुः / इत्यादि / स्वरादिति किम् ? पाण्डुर्भूमिः [धवला भूः] / गुणादिति किम् ? आखुः स्त्री / अखरोरिति किम् ? खरु(श्वेता)रियम् // 35 // - अ० पट्दी पटुः / मृद्वी मृदुः / बह्वी बहुः / साध्वी साधुः / तन्वी तनुः / लघ्वी लघुः / विभ्वी विभुः / इत्युकारान्तशब्दा आदिशब्दात् ज्ञातव्याः / गुणस्वरूपमाह ‘सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते / आधेयश्चाऽक्रियाजश्च सोमसत्त्वप्रकृतिर्गुणः / / 1 / / इति गुणमिह परिभाषन्ते सूरयः / विशेषं च सत्त्वं द्रव्यम् / तत्रैव निविशते / तदेवाश्रयति यः स गुण इति ज्ञेयः सम्बन्धः / यः पुनः कीदृशः ? द्रव्यादपैति अपगच्छति / यथा आम्रात् नीलता पीततायां जातायां मच्छति इति गुणः / पृथग्जातिषु भिन्नजातीयेषु दृश्यते / यथा सैव नीलताने दृष्ट्वा एतेन सर्वेण जातिर्गुणो न भवतीत्युक्तं भवेत् / आधेय उत्पाद्यो गुणो यथा कुसुमयोगाद्गन्धो वस्त्रे / अग्निसंयोगाद् घटे रक्तता / अक्रियाजो नित्यः / यथा आकाशादिषु महत्त्वादि / तदेवं गुणस्य उत्पाद्यत्व-अनुत्पाद्यत्वप्रकारद्वयदर्शनेन उत्पाद्यत्व एकप्रकारस्य कर्मणो . व्यवच्छेदः कृतः / असत्त्वप्रकृतिव्यस्वभावरहितः / एतेन द्रव्यस्य व्यवच्छेदः कृत इति गुणस्वरूपम् // 35 / / - इयतैतहरितभरितरोहिताद्वर्णात्तो नश्च // 2 // 4 // 36 // ____ एभ्यो वर्णवाचिभ्यो स्त्रियां ङीर्ष स्यात् / ङीयोगे तकारस्य नकारश्च / श्येनी / श्येता / [कुमुदा भास्वती कर्बुरा वा] एनी / एता / हरिणी / हरिता / भरिणी / भरिता / रोहिणी / रोहिता / वर्णादिति किम् ? श्येता एता [मृगी मत्सी श्येनी वा] // 36 // ___ अ० श्येतेतिसूत्रे चकारो नकारस्य ङीसन्नियोगशिष्टतार्थः / घृतवर्णा भरणी / रोहिणीशब्दस्य लत्वे लोहिनी लोहिता इति भवति // 36 / / क्नः पलितासितात् // 2 // 4 // 37 // - पलितासिताभ्यां स्त्रियां ङीर्वा स्यात् / ङीयोगे तकारस्य स्नादेशश्च / पलिक्नी / पलिता / असिक्नी असिता // 37 // अ० पलिक्नी इत्यादि / पलित / पलितान्यस्याः सन्ति इति वाक्ये 'अभ्रादिभ्यः' (7 / 2 / 46) इति अप्रत्ययः / तथा या गौर्लध्व्यपि गर्भं दधाति सा असिक्नी इत्युच्यते, अन्तःपुरदूती च असिक्नी // 37 // ___ असहनविद्यमानपूर्वपदात्स्वाङ्गादक्रोडादिभ्यः // 2 // 4 // 38 // सहनविद्यमानवर्जितपूर्वपदं यत् स्वाङ् तदन्तात् क्रोडादिवर्जादकारान्तात् स्त्रियां ङीर्वा स्यात् / पीनस्तनी। पीनस्तना। अतिकेशी। अतिकेशा माला। असहनविद्यमानपूर्वपदादिति किम् ? सहकेशा / अकेशा। विद्यमानकेशा। स्वाङ्गादिति किम् ? बहुयवा / अक्रोडादिभ्य इति किम् ? कल्याणक्रोडा [क्रोडशब्दः स्त्रीक्लीबलिङ्गः] कथं कल्याणपाणिपादा ? अत्र ङीन स्यात् / [द्विपादी त्रिपादीत्यत्र तु 'द्विगोः समाहारात्' (2 / 4 / 22) इति विशेषविधानान्नित्यमेव ङीर्भवति] स्वाङ्गसमुदायो हि न स्वाङ्गम् / बहुस्वरत्वेन वक्ष्यमाणनियमबलाद्वा न ङीः // 38 // / अ० पीनौ स्तनौ यस्याः सा पीनस्तना / अतिक्रान्ता केशान् अतिकेशी / कल्याणक्रोडा / कल्याणखुरा / पीन