________________ 187 श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य चतुर्थः पादः ततो जातिलक्षणो डीभविष्यति // 26 // ___ अ० यदा पुनः रेवत्यां जाता रोहिण्यां जाता इति वाक्ये ‘भर्तुसन्ध्यादेरण' (6 / 3 / 89) इति सूत्रेण अण् / 'अवर्णेवर्णस्य' (7 / 4 / 68) 'अण्ञये०' (2 / 4 / 20) इत्यादिना ङी। 'चित्रारेवतीरोहिण्याः स्त्रियाम्' (6 / 3 / 108) इति सूत्रेण अण् लुप्यते / 'ड्यादेौणस्या०' (2 / 4 / 95) इत्यनेन डीलृप्यते / तदापि नक्षत्रशब्दत्वात् पुनरपि 'रेवतरोहिणाद्रे' इत्यनेन ङीर्भवतीत्यर्थः / / 26 // नीलाप्राण्यौषध्योः // 2 // 4 // 27 // नीलशब्दात् प्राणिनि ओषधौ च ङीः स्यात् / नीली वडवा / नीली गौः / नीली ओषधिः / प्राण्यौषध्योरिति किम् ? नीला शाटी // 27 // / __क्ताच नाम्नि वा // 2 // 4 // 28 // नीलात् क्तान्ताच वा ङीः स्यात् / नाम्नि सञ्ज्ञायाम् / नीली / नीला / प्रवृद्धाप्रबद्धाविलूनी / प्रवृद्धप्रबद्ध]विलूना // 28 // ___ अ० प्रवृद्धश्चासौ विलूनश्च प्रवृद्धविलूनः / स्त्री चेत् इति वाक्यं कार्यम् / ओषधिविशेषः / अखण्डः संज्ञाशब्दो वा // 28 // केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजात् // 2 // 4 // 29 // एभ्यः स्त्रियां लीः स्यानाम्नि / केवली नाम ज्योतिः / मामकी / भागधेयी। पापी [ओषधी] / अपरी [ओषधि] / समानी [छन्दः] / आर्यकृती [क्रियाविशेषः] / सुमङ्गली [ओषधी] / भेषजी [ओषधी] / नाम्नीति किम् ? केवला // 29 // अ० मामक / अस्मद् / ममायं मामकः / 'वा युष्मदस्मदोऽञीनञौ युष्माकास्माकं चास्यैकत्वे तु तवकममकम्' (6 / 3 / 67) इति सूत्रेण अप्रत्ययः / अस्मद्स्थाने ममकआदेशः / [मामक].. स्त्री चेत् मामकी मामकी मातुली / भागधेयी बलिः / मामकशब्दात् अञन्तत्वेन 'अण्ज्ञेये०' (2 / 4 / 20) इत्यादिना डीसिद्धोऽपि नाम्नि सञ्जाविषये नियम्यते / तेन मामिका बुद्धिरित्यत्र संज्ञायां अञ्लक्षणप्राप्तोऽपि डीन भवति / 'नरिका मामिका' (2 / 4 / 112) इत्यत्र वक्ष्यमाणसूत्रे मामिका, इत्वनिपाते ङीप्रतिषेधस्य वक्ष्यमाणत्वात् / अस्मद् / ममेयं मामिका / इतिवाक्ये 'युष्मदस्मदोऽजीनञौ०' (6 / 3 / 67) इत्यादिना अञ् ममकादेशश्च / असंज्ञत्वात् / 'केवलमामक०' इत्यादिनाऽत्र ङीन भवति / 'आत्' (2 / 4 / 18) इत्यनेन आप् / 'नरिकामामिका' (2 / 4 / 112) इति सूत्रेण इत्वं निपात्यते / मामिका इति सिद्धम् / केवलशब्दादियं अवचूरिः ज्ञेया // 29|| भाजगोणनागस्थलकुण्डकालकुशकामुककटकबरात् पक्कावपनस्थूला कृत्रिमामत्रकृष्णायसीरिरंसुश्रोणिकेशपाशे // 24 // 30 // भाजादिभ्यो यथासङ्ग्यं पकाद्यर्थेषु स्त्रियां डीः स्यानाम्नि। भाजी पका चेत्, ततोऽन्या भाजा / गोणी आवपनं चेत्, गोणाऽन्या / नागी स्थूला चेत्, नागाऽन्या / स्थली अकृत्रिमा चेत्, स्थलाऽन्या / कुण्डी अमत्रं चेत्, कुण्डाऽन्या / काली कृष्णा चेत्, कालाऽन्या / कुशी आयसी [लोहमयी] चेत्, कुशाऽन्या /