________________ 186 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते अ० बिस्तः सुवर्णकर्षः / आचितो दशभारः / ऊर्णापलशतं कम्बलम् / एते परिमाणविशेषा शाकटायने उच्यन्ते / कम्बलोऽस्य स्यात् वाक्ये 'कम्बलान्नाम्नि' (7 / 1 / 34) इति सूत्रेण यप्रत्ययः / 'अवर्णेवर्णस्य' (7 / 4 / 68 इति अलोपः / अशीतिशतं कम्बल्यमित्यन्ये / षट्षष्टिशतमित्यपरः / द्वाभ्यां कुडवाभ्यां त्रिभिः कुडवैः क्रीता द्वाभ्यामाढकाभ्यां क्रीता / 'मूल्यैः क्रीते' (6 / 4 / 150) इति सूत्रेण इकण् / 'अनाम्न्यद्विः प्लुप्' (6 / 4 / 141 इति सूत्रेण इकण् लुप्यते / ततो डीः // पञ्चभिरश्चैः क्रीता पश्चाश्चा / 'मूल्यैः क्रीते' (6 / 4 / 150) इकण् द्वाभ्यां शताभ्यां क्रीता द्विशता / ‘सङ्ख्याडतेश्चाऽशत्तिष्टेः कः' (6 / 4 / 130) इति सूत्रेण कप्रत्ययः / 'अनाम्न्यद्विः (6 / 4 / 141) इत्यनेन इकण् कप्रत्ययश्च लुप्यते / द्वाभ्यां पणाभ्यां क्रीता द्विपण्या। ‘पणपादमाषायः' (6 / 4 / 148 इति सूत्रेण यप्रत्ययः / 'अवर्णेवर्णस्य' (74 / 68) इति अकारो लुप्यते / द्वाभ्यां विस्ताभ्यां क्रीता द्विबिस्ता द्वाभ्यामाचिताभ्यां क्रीता ब्याचिता / द्वाभ्यां कम्बल्याभ्यां० 'मूल्यैः क्रीते' (6 / 4 / 150) इकण् ‘अनाम्न्यद्विः (6 / 4 / 141) लुप् / तत आप् / कम्बलोऽस्य स्यात् 'कम्बलान्नाम्नि' (7 / 1 / 34) इति यः / ततो द्वाम कम्बल्याभ्यां क्रीता / ऊर्ध्वत्वेन दैर्येणैव आयामं नाम प्रमाणमुच्यते // 23 / / काण्डात् प्रमाणादक्षेत्रे // 2 // 4 // 24 // प्रमाणवाचिकाण्डशब्दान्तादक्षेत्रविषयाव्दिगोस्तद्धितलुकि ङीः स्यात् / द्विकाण्डी / त्रिकाण्डी रज्जः प्रमाणादिति किम् ? द्विकाण्डा शाटी / अक्षेत्र इति किम् ? द्विकाण्डा क्षेत्रभक्तिः // 24 // अ० द्वे काण्डे प्रमाणमस्या द्विकाण्डी / त्रीणि काण्डानि प्रमाणमस्यास्त्रिकाण्डी। 'प्रमाणान्मात्रट्' (7 / 1 / 140 'द्विगोः संशये च' (7 / 1 / 144) इति सूत्रेण मात्रट् लुप्यते / तदनन्तरं 'काण्डात्प्रमाण०' इत्यनेन डी / द्वाभ काण्डाभ्यां क्रीता द्विकाण्डा / 'मूल्यैः क्रीते' (6 / 4 / 150) इकण् / 'अनाम्न्यः' (6 / 4 / 141) इति इकण् लुप्यते अक्षेत्र इति द्विगोविशेषणं किम् ? काण्डस्य क्षेत्रविषयत्वेऽपि यथा डीः स्यात् / द्वाभ्यां काण्डाभ्यां क्षेत्रसंज्ञिताभ क्रीता द्विकाण्डी / त्रिकाण्डी वडवा / अत्र द्विगुर्न क्षेत्रविषयः किन्तु काण्डशब्दविषय इति ङीर्भवतीत्यर्थः / काण्ड परिमितं क्षेत्रमपि काण्डं इति युक्त्या / द्वे काण्डे प्रमाणमस्याः 'प्रमाणान्मात्रट्' (7 / 1 / 140), 'द्विगोः संश च' (7 / 1 / 144) इत्यनेन मात्रट लुप्यते / तत आप् / एवं त्रिकाण्डा // 24 // पुरुषाद्वा // 2 // 4 // 25 // प्रमाणवाचिपुरुषान्ताद् द्विगोस्तद्धितलुकि ङीर्वा स्यात् / द्विपुरुषी / द्विपुरुषा परिखा / प्रमाणादित्येव द्विपुरुषा वडवा / तद्धितलुकीत्येव पञ्चपुरुषी / द्विगोः समाहारादिति नित्यमेव // 25 // अ० द्वौ पुरुषौ प्रमाणमस्या द्विपुरुषी / त्रयः पुरुषाः प्रमाणमस्याः त्रिपुरुषी / 'प्रमाणान्मात्रट' (7 / 1 / 140) 'द्विगोः संशये च' (7 / 1 / 144) इति मात्रट् लुप्यते / द्वाभ्यां पुरुषाभ्यां क्रीता 'मूल्यैः क्रीते' (6 / 4 / 150 इकण् / 'अनाम्न्यद्वि०' (6 / 4 / 141) इति लुप् / पञ्चानां पुरुषाणां समाहारः अथवा पञ्च पुरुषा रज्जुप्रमाणभूता समाहृताः पञ्चपुरुषी / / 25 / / रेवतरोहिणाझे // 2 // 4 // 26 // रेवतरोहिणाभ्यां भे नक्षत्रवृत्तिभ्यां ङीः स्यात् / रेवती / रोहिणी। भ इति किम् ? रेवता / रोहिणा कथं रोहिणी [ओषधिभेदः] कटुरोहिणी [ओषधिभेदः] ? रोहिणशब्दः प्रकृत्यन्तरमस्ति [अर्थभेदात् प्रकृतिभेद इत्यर्थः