________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य चतुर्थः पादः 185 क्रमं प्रयोगाः / सुपा अपत्यं सौपर्णेयः / विनतायाः अपत्यं वैनतेयः / ‘ड्याप्त्यूङः' (6 / 170) इति सूत्रेण एयण् / शिलायास्तुल्या शिलेयी / शैलेयी / इष्टका / 'शिलाया एयच्च' (71 / 113) इति सूत्रेण एयच् / शिलेयी / चकारात् एयञ्, तत्र शैलेयी इष्टका / अक्षैर्दीव्यति आक्षिकी 'तेन जितजयद्दीव्यत्खनत्सु' (6 / 4 / 2) इति इकण् / स्त्रिया अपत्य स्त्रिया इयं वा स्त्रैणी / पुंसोऽपत्यं पुंसो वर्ग (इदं) वा पौंस्नम् / स्त्री चेत् (पौंस्नी) 'प्राग्वतः स्त्रीपुंसाबस्नञ्' (6 / 1 / 25) / जानु ऊर्ध्वं प्रमाणमस्या जानुदघ्नी / 'वोर्ध्वं दघ्नवयसट्' (7 / 1 / 142) जानुदघ्नी जानुद्वयसी / जानुनी प्रमाणमस्याः प्रमाणान्मात्रट् (7 / 1 / 140) इति मात्रट जानुमात्री / 'कै गैरै शब्दे' गायन्ति गायनी, एवं शिल्पगायनी / 'टनण्' (5 / 1 / 67) इति सूत्रेण टनण् / कुरुषु चरतीति कुरुचरी / 'चरेष्टः' (5 / 1 / 138) इति सूत्रेण टप्रत्ययः / शुनी / स्तन / ट्धे पाने / शुनी धयतीति स्तनं धयतीति 'शुनिस्तनमुञ्जकूलास्य पुष्पाट ट्धेः' (5 / 1 / 119) इति खश् / 'खित्यनव्ययाऽरुषो मोऽन्तो ह्रस्वश्च' (3 / 2 / 111) मोऽन्तः / ह्रस्वश्च शुनिन्धयी / स्तनन्धयी सर्पजातिः / गौतमेन प्रोक्तानीति 'तेन प्रोक्ते' (6 / 3 / 181) इति सूत्रेण इण् / 'अणजेये.' इत्यनेन डीः / गौतमीमधीते 'तद्वेत्त्यधीते' (6 / 2 / 117) पुनरपि अण् / 'प्रोक्तात्' (6 / 2 / 129) इति सूत्रेण अणो लुप् ‘ड्यादेर्गौणस्याक्किप०' (2 / 4 / 95) इत्यनेन ङीलोपः / अणो लुपि सत्यां अणन्तत्वाभावात् पुनर्जी न भवति इति गौतमा इति प्रयोगः / आप भवति-टित् द्वारेणविशेषप्रयोगा इमे ज्ञेयाः / शक्तिः / यष्टिः / आयुधमस्याः शाक्तीकी याष्टीकी ‘शक्तियष्टेष्टीकण्' (6 / 4 / 64) ह्यस्तनी / श्वस्तनी / अद्यतनी / चिरन्तनी / परुत्तनी / भूतपूर्वा भिक्षुः भिक्षुचरी / “भूतपूर्वेप्चरट्' (7 / 2 / 78) // 20 // वयस्यनन्त्ये // 2 // 4 // 21 // ___प्राणिनां कालकृतावस्था बाल्ययौवनादि वयः तस्मिन्ननन्त्येऽचरमे वर्तमानादकारान्तात् ङीः स्यात् / कुमारी / किशोरी। तरुणी / तलुनी / कलभी / वधूटी / अनन्त्य इति किम् ? वृद्धा / स्थविरा / कथं द्विवर्षा ? नैता वयःश्रुतयः, अर्थात्तु वयो गम्यते / बाला / वत्सा इत्यादयोऽजादौ // 21 // ___ अ० कुमारी / वियोगाभावविशिष्टं वयः कुमारीशब्दस्य प्रवृत्तिनिमित्तं भवति / न तु धवयोगाभावमात्रम् / वृद्धा कुमारीव वृद्धकुमारी इत्युपमानवशात् / द्वे वर्षे भूता द्विवर्षा एवं त्रिवर्षा / 'प्राणिनि भूते' (6 / 4 / 112) इति सूत्रेण अप्रत्ययः // 21 // द्विगोः समाहारात् // 2 // 4 // 22 // समाहारद्विगुसंज्ञनाम्नोऽकारान्तात् ङीः स्यात् / [पञ्चानां पूलानां समाहारः] पञ्चपूली / [पञ्चानामजानां समाहारः] पश्चाजी / कथं त्रिफला ? अजादित्वात् // 22 // ___ परिमाणात्तद्धितलुक्यबिस्ताचितकम्बल्यात् // 2 // 4 // 23 // परितः सर्वतो मानं परिमाणम् / तच्च रूढितः प्रस्थादि / यदाहुः- 'ऊर्ध्व मानं किलोन्मानं परिमाणं तु सर्वतः / [ऊर्ध्वं विना दैर्येण] आयामस्तु प्रमाणं स्यात्, सङ्ख्या बाह्या तु सर्वतः' // 1 // बिस्तादिवर्जपरिमाणान्ताद् द्विगोरकारान्तात्तद्धिते लुकि ङीः स्यात् / द्विकुडवी / न्याढकी / परिमाणादिति किम् ? पञ्चाश्चा। द्विशता / तद्धितलुकीति किम् ? द्विपण्या / अबिस्ताचितकम्बल्यादिति किम् ? द्विबिस्ता / ब्याचिता / द्विकम्बल्या // 23 //