________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य चतुर्थः पादः 183 अधिकृतोऽस्ति तस्यापो बाधकानि 'जातेरयान्तनित्यत्रीशूद्रात्' (2 / 4 / 54) इत्यादिसूत्राणि वक्ष्यन्ते ङीप्रत्ययविधानेन / तस्यापि ङीप्रत्ययस्य बाधनार्थं 'अजादे' रिति सूत्रं कृतम् / अजादेः पर आप् एव न तु डी इत्येको हेतुः / 'आत्' (2 / 4 / 18) इति सूत्रेण अकारान्तात् आप् क्रियते / 'अजादे' रिति सूत्रं अकारान्तात् व्यञ्जनान्तादपि प्रवर्त्तते इति अनकारार्थं इत्यक्षरार्थः / अयं द्वितीयो हेतुः / अयं हेतुः स्वबुद्ध्या कल्पितोऽस्ति तत्त्वं वैयाकरणा विदन्ति / 'जातेरयान्तनित्यस्त्रीशूद्रात्' (2 / 4 / 54) अनेन डीप्राप्तिः / महांश्चासावजश्च महाजः / स्त्री चेत् महाजा / एवं परमश्वासावजश्च परमाजः स्त्री चेत् परमाजा / अत्र स्त्रीविवक्षायां 'अजादे' रिति तदन्तादपि शब्दात् आप् / तथा भवन्तमतिक्रान्ता अतिभवति एवं अतिमहती / अतिधीवरी / महान्तमतिक्रान्ताऽतिमहती। धीवानमतिक्रान्ता अतिधीवरी / भवतीति अतिमहती अत्र अधातू० (2 / 4 / 2) डी / अतिधीवरी ‘णस्वराघोषा०' (2 / 4 / 4) इति डी / 'जातीयैकार्थेऽच्चेः' (3 / 2 / 70) इति सूत्रेण महत्शब्दात् डा अन्तादेशः / / अजादिगणः / अजा / एडका / अश्वा / चटका / मूषिका / कोकिला / एभ्यो जातिलक्षण ङीबाधक आप् / बाला होडा / पाका / वत्सा / मन्दा / विलाता। कन्या / मध्या / मुग्धा / एभ्यो 'वयस्यन्त्ये' (2 / 4 / 21) इति ङीप्राप्तिः, तद्बाधक आप् / विलाती अपि / ज्येष्ठा / कनिष्ठा / मध्यमा एभ्यो ‘धवाद्योगादपालकान्तात्' (2 / 4/59) इति डीप्राप्तिः, तद्भाधनार्थं आप् / पूर्वापहाणा / अपरापहाणा / सम्प्रहाणा / परप्रहाणा / एषु 'अणजेयेकण०' (2 / 4 / 20) इत्यादिना डीप्राप्तिः, तद्बाधनार्थं आप् / त्रीणि फलानि समाहृतानि त्रिफला / अत्र 'द्विगोः समाहारात्' (2 / 4 / 22) इति डीप्राप्तिः, तद्बाधनार्थं आप् / 'कुञ्चा / देवविशा / उष्णिहा / एषु व्यञ्जनान्तत्वात् 'आत्' (2 / 4 / 18) इत्यनेन आप् अप्राप्तिरिति अजादिपाठः / अजादित्वात् व्यञ्जनान्तादपि आप् / इति अजादिगणः // 16 // - ऋचि पादः पात्पदे // 2 // 4 // 17 // कृतपाद्भावस्य पादशब्दस्य आबन्तस्य ऋच्यर्थे पात् पदेति [पदा इति] निपात्यते / त्रिपात् / त्रिपदा गायत्री / ऋचीति किम् ? द्विपात् / द्विपदी / चतुष्पात् ? चतुष्पदी // 17 // . अ० सूत्रे पाद 'आत्' (2 / 4 / 18) इति आप् / षष्ठी ङस् / सूत्रत्वात् आप्लोपः / पादः इति सिद्धम् / त्रिपात् इत्यादि त्रि अग्रे पाद / त्रयः पादा अस्यां ऋचौ सा त्रिपादा / आप् / 'सुसङ्ख्यात्' (7 / 3 / 150) इति सूत्रेण पादस्य पाद् क्रियते / तदनन्तरं 'ऋचि पादे'ति सूत्रेण पाद आप्सह पात् इति निपात्यते / त्रिपात् सिद्धम् / त्रिपदा गायत्रीत्यत्र पाद्स्थाने पदा इति निपात्यते तत्र त्रिपदा / पात्पदा इत्यादेशबलात् 'वा पादः' (2 / 4 / 6) इत्यनेन न डीः / व्यावृत्तौ..[द्विपात्, द्विपदी, चतुष्पात्, चतुष्पदी इत्या] दीनां सिद्धिः / 'वा पादः' इत्यत्र लिखितास्ति / चतुष्पात् इत्यत्र 'निर्दुर्बहिरावि०' (2 / 3 / 9) इति रस्य षकारः // 17 // आत् // 2 // 4 // 18 // ___ अकारान्तानाम्नः स्त्रियामाप् स्यात् / खट्वा / सर्वा / या / सा / 'आत्' इत्यधिकृतमुत्तरत्र यथासम्भवं योजनीयम् // 18 // ... गौरादिभ्यो मुख्याड्डीः // 2 // 4 // 19 // [गौरादिभ्य इत्यारभ्य नुर्जाते इत्यन्तं पुनः ङीप्रत्ययाधिकारे सूत्र 54]