________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते नाम्नि // 2 // 4 // 12 // अन्नन्ताबहुव्रीहेर्नाम्नि संज्ञाविषये नित्यं ङीः स्यात् / अधिराज्ञी सुराज्ञी इति नाम ग्रामः / बहुराज्ञीति नाम पुरी / अयमपि विधिरुपान्त्यलोपिन एव / नित्यार्थमिदम्, तेन पक्षे डाप् वा न स्यात् [विकल्पेन डाप न भवतीत्यर्थः] // 12 // अ० अधिराज्ञी / सुराज्ञी / अधिका राजानो यस्यां साऽधिराज्ञी / सु शोभनो राजा यस्यां सा सुराज्ञी // 12 // नोपान्त्यवतः // 2 // 4 // 13 // यस्योपान्त्यलोपो नास्ति स उपान्त्यवान् / तस्मादन्नन्ताद्बहुव्रीहेः स्त्रियां ङीन भवति / सुपर्वा / सुपर्वाणौ / सुशर्मा / सुशर्माणौ / उपान्त्यवत इति किम् ? बहुराज्ञी [बहवो राजानो यस्यां सा] // 13 // अ० 'अनो वा' 'स्त्रियां नृतोऽस्वस्रा०' (2 / 4 / 1) दिसूत्रद्वयस्य बाधकमिदम् // 13 // ... - मनः // 2 // 4 // 14 // मन्नन्तात् स्त्रियां ङीन स्यात् / सीमा / सीमानौ / बहुव्रीहेरिति निवृत्तम् / योगविभागात् // 14 // अ० 'अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति' इति वचनात् महिमानमतिक्रान्ता अतिमहिमा इत्यादावपि 'मनः' इति सूत्रेण ङीप्रतिषेधो भवति / इयमवचूरिः सीमा सीमानौ इत्यस्याग्रे ज्ञातव्या // 14 // ताभ्यां वाप् डित् // 2 // 4 // 15 // मन्नन्ता[मन् अन्तात् नाम्नोऽनन्ताच्च बहुव्रीहेः स्त्रियामाप् प्रत्ययो वा स्यात् / स च डित् / सीमे / सीमाः / [जस्] सुपर्वे / सुपर्वाः / [पक्षे] सीमानौ / सीमानः / सुपर्वाणौ / सुपर्वाणः / उपान्त्यलोपिनस्तु बहुव्रीहेमरपि भवति / एवमुपान्त्यलोपिनोऽनन्तस्य बहुव्रीहेः स्त्रियां ङीडाविकल्पाभ्यां त्रैरूप्यम् / बहुराज्यौ / [डाप्] बहुराजे / बहुराजानौ / [डाप् विकल्पः] बहुराज्यः / बहुराजाः [डाप्] बहुराजानः [अत्र न डाप्] / उपान्त्यवतस्तु डा प्रतिषेधाभ्यां द्वैरूप्यम् / डाप् इत्यकृत्वा डित् इति करणं उत्तरत्राप एवानुवृत्त्यर्थम् // 15 // ___ अ० 'ताभ्यां वाप्०' इत्यादि आप्प्रत्ययाधिकारः / सूत्र 4 ज्ञातव्यानि / डित्करणं अन्त्यस्वरादिलोपार्थम् / औ औता आप विकल्पेन भवति / यत्राप तत्र सीमे इत्यादि / यत्र च नाप तत्र सीमानौ इत्यादि / एषु 'नोपान्त्यवतः (2 / 4 / 13) 'मनः' (2 / 4 / 14) इति सूत्राभ्यां प्रतिषेधात् डीन भवति / एवं उद्दाम्नीम् / उद्दामाम् / उद्दामान वडवां पश्य // 15 // अजादेः // 2 // 4 // 16 // अजादिभ्य आवृत्त्याजादीनामेव स्त्रियां वर्तमानेभ्य आप्प्रत्ययः स्यात् / बाधकबाधनार्थ अनकारार्थ च वचनम् / अजा / एडका / अश्वा / चटका एभ्यो जातिलक्षणस्य ङीप्रत्ययस्यापवाद आप् / अजादेरित्यावृत्त्या षष्ठीसम्बन्धः किम् ? अजादिसम्बन्धिन्यामेव स्त्रियां वाच्यायां यथा स्यात् / तेनेह न स्यात् / पञ्चानामजानां समाहारः पञ्चाजी / अत्र हि समाहारः समासार्थः स्त्री। नासावजसम्बन्धिनी / [यथा' क्रुश्चा दिवविशा उष्णिहा इत्यत्र] अत एव ज्ञापकादत्र स्त्रीप्रकरणे तदन्तादपि आप् ङी भवति / [यथा] महाज़ा / परमाजा / एवं अतिभवतीत्यादि // 16 // अ० बाधकबाधनार्थं इति कोऽर्थः ? वक्ष्यमाण ‘आत्' (2 / 4 / 18) इति सूत्रेण सर्वत्र अकारान्तात् आप