________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य चतुर्थः पादः 179 षोडशः, षोलशः / बडिशम्, बलिशम् / पुडिनम्, पुलिनम् / पीडा, पीला / यथादर्शनमन्येऽपि ऋफिडादौ द्रष्टव्याः // 104 // जपादीनां पो व // 2 / 3 / 105 // जपादिशब्दानां पकारस्य वकारादेशो वा स्यात् / जवा जपा [जातिपुष्पम् / पारावतः पारापतः। त्रिविष्टपम् त्रिपिष्टपम् [जगत् ] / पारावारः पारापारः [समुद्रः] / कवाटः / कपाटः / अवाची अपाची / जपादयः प्रयोगतोऽनुसतव्याः // 105 // द्वितीया० तृतीयः पादः ॥ग्रं.३११॥ इति श्रीसिद्धहेमशब्दानुशासने द्वितीयस्याध्यायस्य मध्यमवृत्त्यवचूरिभ्यामलङ्कृतस्तृतीयः पादः समाप्तः // 3 // अहँ . . स्त्रियां नृतोऽस्वम्रादेमः // 2 // 4 // 1 // __ स्त्रियां वर्तमानानक्रारान्तात् ऋकारान्ताच्च नाम्नः स्वम्रादिवर्जात् ङीप्रत्ययो भवति / नकारान्त-राज्ञी अतिराज्ञी दण्डिनी। ऋदन्त-की / स्त्रियामिति किम् ? / पञ्च सप्त [जस्] नद्यः / अस्वम्रादेरिति किम् ? स्वसा दुहिता इत्यादि / तिम्रः चतम्रः इत्यन्तं स्वम्रादिगणः // 1 // - अ० अथ डीप्रत्यय अधिकारः / डीसूत्राणि द्वादश 12 विधिमयानि / सूत्र 2 निषेधकानि एवं सूत्र 14 डीसम्बन्धे / पूजितो राजा अतिराजा / स्त्री चेत् अतिराज्ञी / 'नन्तासङ्ख्या डतिर्युष्मदस्मच्च स्युरलिङ्गका' इति वचनात् नकारान्तसङ्ख्याशब्दस्याऽलिङ्गत्वात् नकारलोपेऽपि 'आत्' (2 / 4 / 18) इत्यनेन आप्प्रत्ययोऽपि न भवतीत्यर्थः / / स्वसा अतिस्वसा परमस्वसा दुहिता ननान्दा याता माता तिस्रः चतस्रः इति स्वस्रादिगणः / / तिस्रः चतस्रःअत्र तिसृचतस्रादेशस्य विभक्त्यनन्तरनिमित्तत्वात् सन्निपातलक्षणत्वेन तद्विघातकत्वाभावादेव ङीनिवृत्तौ सिद्धायां स्वस्रादिषु तिसृचतसृपाठः सन्निपातन्यायस्यानित्यत्वज्ञापनार्थः / तेन अतिदन्या कन्यया इत्यादौ विभक्तिनिमित्ते अनादेशे सति डीः सिद्धो भवति / एवं या सा इत्यादिष्वपि आकारादेशे कृते आप्प्रत्ययोऽपि भवतीत्यर्थः // 1 // . अधातूदृदितः // 2 // 4 // 2 // 'धातुवर्जितो य उदित् उकारानुबन्धः [उकारानुबन्धो धातुर्वर्जनीय इति भावः] ऋदित् ऋकारानुबन्धश्च प्रत्ययोऽप्रत्ययो वा तदन्तात् स्त्रीवृत्तेॐ स्यात् / उदित्-भवन्ती गोमती / प्रेयसी / विदुषी / ऋदित्-पचन्ती। दीव्यन्ती। महती। अतिभवति / अतिमहती। अत्र नामाव्युत्पुत्तिपक्षे उदृदित् तदन्तं समासनाम / निर्गोमती। अतिपुंसी इत्यत्र प्रत्ययस्योदित्त्वात् गोमदादिशब्दोऽप्युदित् तेन तदन्तं समासनाम / अधात्विति किम् ? सुकन् / सुहिन् स्त्री // 2 // ___ अ० न धातोरुत् अधातूत्, अधातूच्च ऋच्च अधातूदृत् इत अनुबन्धो यस्य तस्मात् / प्रेयसी अत्र प्रियशब्दः / अतिशयेन प्रियः प्रेयान्। 'गुणाङ्गाद्वेष्ठेयसू' (7 / 3 / 9) इति ईयस्प्रत्ययः / 'प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दारकस्येमनि च प्रास्थास्फावरगरबंहत्रपद्राघवर्षवृन्दम्' (7 / 4 / 38) इति सूत्रेण प्रियशब्दस्य प्र आदेशः / स्त्री चेत् प्रेयसी /