________________ 178 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते ग्रो यङि // 2 / 3 / 101 // यङि परे गिरते रेफस्य लः स्यात् / निजेगिल्यते / गृणातेस्तु यडेव नास्ति // 101 // अ० निजेगिल्यते. 'गृत् निगरणे' गृi निपूर्वम् / गर्हितं निगिरति ‘गृलुपसदचरजपजभदशदहो गर्ये' (3 / 4 / 12 इति सूत्रेण यङ् / 'ऋतां विडतीर्' (4 / 4 / 116) इति इर् / द्वित्वम् / 'आगुणावन्यादेः' (4 / 1 / 48) अभ्यारं गुणः / ‘गहोर्जः' (4 / 1 / 40) इति गस्य जः / 'ग्रो यङि' इति रस्य लत्वम् / 'गृश् शब्दे' इत्यस्य न लत्वम् 'न गृणाशुभरुचः' (3 / 4 / 13) इत्यनेन यनिषेधात् // 101 / / नवा स्वरे // 2 // 3 // 102 // गिरते रेफस्य स्वरादौ प्रत्यये परे विहितस्य लो वा स्यात् / गिरति गिलति / ['ऋतां विडतीर्' (4 / 4 / 116 इर्] / निगरणम् / निगलनम् [निगीर्यते अनट् / गुणः] / विहितविशेषणादिहापि लत्वम् / निगाल्यते / निगा यते' / [निगिरन्तं प्रयुङ्क्ते / णिग् / 'नामिनोऽकलि०' (4 / 3 / 51) वृद्धिः क्यः] अत्र तु मा भूत् / गिरी. / गिरः // 102 // परेर्घायोगे // 2 // 3 // 103 // परिसम्बन्धिरेफस्य घ-अङ्क-योग इति शब्देषु परेषु लो वा स्यात् / पलिघः / परिघः / पल्यङ्कः / पर्यटः परियोगः / पलियोगः // 10 // ___ अ० परिहन्यतेऽनेनेति परिघः / ‘परेघः' (5 / 3 / 40) इति अल् घादेशश्च / अङ्कपरिगतोऽङ्केन वा परिगत पर्यङ्कः / योगपरिगतो योगेन वा परिगतो परियोगः // 10 // . ऋफिडादीनां डच लः // 2 // 3 // 104 // . ऋफिड इत्यादीनां ऋकारस्य लकारः, रकारस्य लकारः, डकारस्य तु लकारो वा स्यात् / लृफिल ऋफिडः / तृतकः ऋतकः / कं सुखं परं यस्यां सा कपरिका कपलिका / लोमानि रोमानि / पुलुषः पुरुषः डस्य लः-चूला चूडा / इला इडा / पोलशः षोडशः। पीला पीडा / ऋफिडादयो यथादर्शनं द्रष्टव्याः / संयुक्तस आदेश्च डस्य लत्वं न दृश्यते [संयुक्तडकारस्य आदिडकारस्प] पाण्डुः कण्डूः / डामरः [गमरः], डिण्डिमः [डिम्भः डिम्भः] // 10 // __ अ० ऋफिड / ऋतक / कपरिका / पुण्डरीकम् / कपिरकम् / रोम / अङ्गुलिः / पुरुषः / तरुणः / तलुनः सरिरम् सलिलम् / अरम् अलम् / मूरम् मूलम् / करीरः कलीलः / कर्म कल्म / मुकुरम् मुकुलम् / पांसुर पांसुलः / रेखा लेखा / रिक्षा लिक्षा / रोहितम् लोहितमित्यादि / अर्थभेदेऽपि रकारस्य लकारो दृश्यते / यथ इरा अमृतम् इला भूमिः / तर्परः पशूनाम् कण्ठघण्टः, तल्पलो गजपृष्ठैकदेशः / करभ उष्ट्रः, कलभो बालहस्ती शरभोऽष्टापदः, शलभः पतङ्गः / कारो रक्षानिवेशः, कालो वर्णः / वारः क्रियाभ्यावृत्तिः, वालः केशः / रघु राजा, लघुरपचितपरिणामः / गरो विषम्, गलः कण्ठः / मुद्गरः प्रहरणम्, मुद्गलः प्रेतः / मण्डरः, मण्डलो देशः कन्दरो गुफा, कन्दलो नवकुमलः / कलिर्वा / ऐकार्थेऽपि रस्य लकारः, डकारस्य लकारो दृश्यते-यथा गरम् गलम्, ऋफिडः, ऋफिलः / वडभी, वलभी / चूडा, चूला / इडा, इला / व्याडः, व्यालः / पुरोडाशः, पुरोलाशः 1. अत्र णिनिमित्त रेफत्वात् णि लोपेऽपि लत्वम् / 2. यतोऽत्र क्विप्निमित इर् /