________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य चतुर्थः पादः 177 नृति, नन्दि, नर्दि, नशि, नाटि, नकि, नाथ, नाधृ नृवर्जा णोपदेशाः / धातूनां णोपदेशश्च ‘अदुरुपसर्गान्तरो गहि.' (2 / 3 / 77) इति सूत्रे विषयव्यवस्थार्थः // 9 // ___ अ० "नटण् अवस्यन्दने' इति चुरादेर्वर्जनम् / ‘णट नृत्तौ' इति भ्वादिकस्य, प्रणटति प्रणाटयतीति प्रयोगो णोपदेशे ज्ञातव्यः / ये धातुपाठे धातवो णोपदेशाः पठ्यन्ते, तेषां नकारस्य णकारो ‘रवर्ण०' (2 / 3 / 63) इत्यनेन / 'अदुरुपसर्गान्तरोणहिनुमीनानेः' (2 / 377) इत्यनेन क्रियते / इति णोपदेशधातुपाठफलं ज्ञातव्यम् // 97|| षः सोऽष्ठयैष्ठिवष्वष्कः // 2 // 3 // 98 // पाठे धात्वादेः षकारस्य सकारादेशः स्यात् / षकारश्चेत् ष्टयैष्ठिवष्वष्कसम्बन्धी न भवति / सहन्ते / पाठ इत्येव / [षण्ढमिच्छति] षष्टीयति / आदेरित्येव / लपति / ट्यादिवर्जनं किम् ? ट्यायति / ष्ठीव्यति। प्वष्कते / सृपि, सृजि, स्त्या, स्तु, स्तृ, सेकृवर्ज स्वरदन्त्यपरसकारादयः स्मिस्विदिस्वदिस्वञ्जिस्वपयश्च पोपदेशा उच्यन्ते / षोपदेशश्चैषां षत्वविषयार्थः // 98 // ___अ० 'ष्टौं स्त्य सङ्घाते च' 'ष्ठिवू क्षिबूच् निरसने' कुकुङ् श्वकुङ् इत्यादिदण्डकधातौ ष्वष्किधातुः / स्मिप्रभृतिभिः साहचर्यात् एकस्वराणामेव षोपदेशस्मृतिः / अतएव सूत्र-सत्र-संग्राम-साम-सभाज-स्थूल-स्तन-स्तेनस्ताम-मुखानां अषोपदेशत्वात् सासूत्र्यते इत्यादि / / 98|| . करलुलं कृपोऽकृपीटादिषु // 2 // 3 // 99 // [ऋश्च रश्च लश्च लश्च कर लुलं] कृपेर्धातो:कारस्य लुकारो रेफस्य च लकार आदेशः स्यात् / नतु कृपीटादि ऋकारस्य ['कृपौङ् सामर्थ्य'] क्लृप्तः / क्लृप्यते / अचीक्लुपत् / रस्य लः / कल्पते / कल्पयति / कल्पकः / कल्पः / चलीक्लृप्यते / चलीक्लृप्ति / अकृपीटादिष्विति किम् ? कृपीटम् / कृपणः / कृपाणः / कृपः / कर्पूरः / कर्पटः / कर्पटिः // 99 // _ अ० अत्यर्थं कल्पते / यङ् / द्वित्वम् / 'ऋतोऽत्' (4 / 1 / 38) 'ऋमतां रीः' (4 / 1 / 55) इति सूत्रेण री अन्तः / 'करलुलं०' इति सूत्रेण रीकारस्य लकारः / ऋकारस्य लुकारश्च / चलीक्लुप्यते इति सिद्धम् / चलीक्लुप्ति / अत्र यङ् लुप्यते शेषं पूर्ववत् / कृपेर्गुणे कृते रस्य लकारः / अकृपीटादिष्वत्र बहुवचनमाकृतिगणार्थम् / कृपीट इत्यादिषु सर्वत्र ‘कृपौङ् सामर्थ्य'. / कृप्' / 'तृकृकृपिकम्पिकृषिभ्यः कीटः' (151) इति कीट / कृपीटः / 'गृपृकृपिवृषिभ्यः कित्' (188) 'कृपिविषिवृषिधृषिमृषियुषिद्रुहिग्रहेराणक्' (191) कृपाणः / कृपःकृपाप्रयोगयोः' प्रत्ययो न ज्ञायते सम्यग् / 'मीमसिपशिखटिखडिखर्जिकर्जिसर्जिकृपिवल्लिमण्डिभ्यः ऊरः' (427) इति ऊरः कर्पूर इति सिद्धम् / 'दिव्यविश्रुकुकर्विशकिकङ्किकृपिचपिचमिकम्येधिकर्किमर्किकक्खितृकृसृभृवृभ्योऽटः' (142) कर्पटः / 'कृपिशकिभ्यामटिः' (630) कपटिः इति सिद्धम् // 19 // उपसर्गस्यायौ // 2 // 3 // 10 // उपसर्गरेफस्य अयि धातो परे लकारः स्यात् / [प्र-अय] प्लायते / पलायते / पल्ययते / निलयनम् [नितरामय्यते अनट्] / दुलयनम् / उपसर्गस्येति किम् ? [परं च तत् अपनं च / ] परायनम् / अयि इति इकारनिर्देशोऽयि गतावित्यस्य परिग्रहार्थः // 10 // ___ अ० 'प्र-पूर्व. अयिवयिपयिमयिनयिचयिरयि गतौ' / परायते अत्र परा-पूर्वोऽयधातुः / पल्ययते परिपूर्व-अय् // 10 // 1. कल्पते इति कृपः 'नाम्युपान्त्य० / 5 / 154 / इत्यनेन कः / क्लृप्यते कृपा इत्यत्र ‘मृगयेच्छा० / 5 / 3 / 101 / अनेन अङ्, 'आत्' / 2 / 4 / 18 / अनेन आप् /