________________ -176 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलङ्कृते हनो घि // 2 // 3 // 94 // हन्तेर्नकारस्य धकारे निमित्तकार्यिणोरन्तरे सति णो न स्यात् / वृत्रघ्ना [टा] / वृत्रघ्नः [शस् डस् वा] / प्रघ्नन्ति / प्राघानि / [भिणवि घन्' (4 / 3 / 101)] प्राघ्नन् / प्रघानिष्यते / हन इति किम् ? अर्पण / परिघेण / घीति किम् ? वृत्रहणौ // 94 // ___ अ० वृत्रं हतवान् / 'ब्रह्मादिभ्यः' (5 / 1 / 85) इति सूत्रेण टक् / शत्रु हन्ति हतवान्वा 'ब्रह्मा०' टक् / 'गमहनजनखन०' (4 / 2 / 44) इत्यादिना उपान्त्यस्य लोपः / 'हनो हो घ्नः' (2 / 1 / 112) इति सूत्रेण घ्नआदेशः, पश्चात् टा, डस् / / 94 / / नृतेर्यङि // 2 // 3 // 95 // नृतेर्धातोर्नस्य [नकारस्य] यविषये णो न स्यात् / नरीनृत्यते / नरिनर्त्ति / ननर्ति / नरीनृतीति / यङीति किम् ? हरिणी नाम कश्चित् [हरिणत्ती अत्र हरिवन्नृत्यतीति हरिणर्ती 'कर्तुणिन्' (5 / 1 / 153) इति णिन् // 95 // अ० नरीनृत्यते इत्यादि उदाहरणानां प्रक्रिया लिख्यते / 'नृतैच् नर्त्तने' नृत् / भृशं पुनःपुनर्वा मृत्यति / 'व्यञ्जनादे०' (3 / 4 / 9) यङ् / 'सन्यङश्च' (4 / 1 / 3) 'ऋतोऽत्' (4 / 1 / 38) 'क्रमतारी' (4 / 1 / 55) इति सूत्रेण अभ्यासे री, नरीनृत्यते इति सिद्धम् 1 / नरिनर्ति इत्यत्र 'बहुलं लुप्' (3 / 4 / 14) यङ् लुप्यते, 'रिरौच लुपि' इत्यनेनाभ्यासे रि, र / / नरिनर्त्ति नर्त्ति इति सिद्धम् / नरिनति ननर्ति उभयत्र 'लघोरुपान्त्यस्य' (4 / 3 / 4) इति गुणः / 2, 3 नरीनृतीति यङ् द्वित्वम् / अत् / यङ्लुप् पूर्ववत् / रिरौ चेति अन्तः, 'यङ्तुरुस्तोर्बहुलम्' (4 / 3 / 64) . इत्यनेन ईत्वे नरीनृतीति सिद्धम् 4 / अत्र सर्वत्र 'रघुवर्ण०' (2 / 3 / 63) इति णत्वे प्राप्ते प्रतिषेधोऽयम् // 15 // क्षुभ्नादीनाम् // 2 // 3 // 96 // क्षुभ्ना इत्यादिनां नस्य णो न स्यात् / ['शुभश् संचलने' 'श्रश्चात्' (4 / 2 / 96)] क्षुभ्नाति / क्षुभ्नन्ति। ['तृपट् प्रीतौ'] तृप्नोति तृप्नुवन्ति / तृप्नुवन् / ['स्वादेः श्रु' (3 / 4 / 75) 'भूनोः' (2 / 3 / 53) उत् / ] तृप्नुवानः / आचार्यानी [आचार्य / आचार्यस्य भार्या आचार्यानी / 'मातुलाचार्योपाध्यायाद्वा' (2 / 4 / 63) इत्यनने ङीअन्तः / ] आचार्यभोगीनः [आचार्यस्य भोगः / आचार्यभोगाय हितः ‘भोगोत्तरपदात्मभ्यामीनः' (7 / 1 / 40) इति ईनः क्षुम्नातीत्यादि आचार्यभोगीन इत्यन्तं ‘रवर्ण०' इत्यनेन णत्वे प्राप्ते] // सर्वनाम / नृनमनः / परिनृत्तम् / गुरुनृत्तम् / परिनर्तनम् / ग्रामनटः। शरनदः। शरनदी। गिरिनगरम् / परिनिवेशः। श्रीनिवासः / शबराग्निः। दर्भानूपः / हरिनन्दी। हरिनन्दनः / गिरिगहनम् / अत्र 'पूर्वपदस्था०' (2 // 3 // 64) इत्यनेन णत्वे प्राप्ते, परिनदनम् ‘अदुरुपसर्ग०' (2 / 3 / 77) इत्यनेन णत्वे प्राप्ते, सुप्रख्येन इत्यत्र 'कवर्गक०' (2 / 3 / 76) इत्यनेन णत्वे प्राप्ते प्रतिषेधोऽयम् / क्षुम्ना / तृप्नु / आचार्यानी / आचार्यभोगीन / सर्वनाम / इत्यादि क्षुभ्नादिगणः // 16 // ____अ० क्षुम्ना / तृप्नु / आचार्यानी / आचार्यभोगीन / सर्वनाम / नृनमन / नृत्त / नर्तन / नट / नद (नड इत्येके) / नदी / नगर / निवेश / निवास / अग्नि / अनूप / नन्दिन् / नन्दन / नदन / गहन / ख्याग् / इति शब्द 21 क्षुभ्रादिगण उच्यते / सूत्रे बहुवचनमाकृतिगणार्थम् // 96 / / पाठे धात्वादेो नः // 2 / 3 / 97 // पाठविषये धात्वादेर्णकारस्य नकार आदेशः स्यात् / नयति ['णींग् प्रापणे'] / नमति [गमं प्रहृत्वे] / पाठ इति किम् ? णकारीयति / धात्विति किम् ? णकारः / आदेरिति किम् ? भणति / सर्वे च नादयो धातवो