________________ 175 श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य तृतीयः पादः ण्यन्तेभ्यश्च ख्यादिभ्यो नस्य ‘णेर्वा' (2 / 3 / 88) इत्यनेन वा णत्वे प्राप्ते, वेपः परस्य नस्य 'व्यञ्जनादे म्युपान्त्याद्वा' (2 / 3 / 87) इत्यनेन वा णत्वे प्राप्त सति 'न ख्यापूगि'ति प्रतिषेधसूत्रं कृतं इत्यर्थः / प्रप्यान इत्यत्र 'स्फायैङ् ओप्यायैङ्क वृद्धौ' / प्याय् / प्रप्यायते स्म / कर्तरि क्तः / 'वोः प्व्यञ्जने लुक्' (4 / 4 / 121) यलुक् / 'सूयत्याद्योतितः' (4 / 270) इति क्तस्य नकारः // 90 / / देशेऽन्तरोऽयनहनः // 2 // 3 // 91 // - अन्तर्शब्दात्परस्य अयनशब्दस्य हन्तेश्च नकारस्य देशेऽभिधेये णो न स्यात् / अन्तरयनो देशः। एवमन्तईननो देशः / देश इति किम् ? अन्तरयणम् / अन्तर्हणनं वर्तते / अन्तर्घणो देशः इति तु निपातनात् // 11 // . अ० 'स्वरात्' 'हनः' (2 / 3 / 82) आभ्यां यथासङ्ख्यं प्राप्तौ ‘देशेऽन्तरो०' इति सूत्रं प्रतिषेधकं कृतम् / अन्तरय्यतेऽस्मिन्निति अन्तरयनः / अन्तर्हन्यतेऽस्मिन् अन्तर्हननः / अन्तरपूर्व हन अन्तहण्यतेऽस्मिन्निति अन्तर्घणः / 'हनोऽन्तर्घनाऽन्तर्घणौ देशे' (5 / 3 / 34) इति सूत्रेण अल्, घण् आदेशो निपात्यते / वाहीकेषु देशविशेषोऽन्तर्पण इत्युच्यते // 11 // षात्पदे // 2 / 3 / 92 // पदे परतो यः षकारस्ततः परस्य नकारस्य णो न स्यात् / [सर्पिषः पानम् ] सर्पिष्पानम् / दुष्पानम् / अत्र ‘पानस्य भावकरणे' (2 / 3 / 69), निष्पानमत्र 'स्वरात्' (2 / 3 / 85) इति, निःपिबन्तं प्रयुङ्क्ते णिग्, 'आत ऐः कृऔ' (4 / 3 / 53.) निष्पायनमित्यत्र ‘णेर्वा' (2 / 3 / 88) सूत्रेण णत्वे प्राप्ते प्रतिषेधोऽयम् / पद इति किम् ? पुष्णातिं / सर्पिष्केण // 92 // पदेऽन्तरेऽनाङ्यतद्धिते // 2 / 3 / 93 // आङन्तं तद्धितान्तं च मुक्त्वाऽन्यस्मिन् पदे निमित्त[निमित्तिनोः]कार्यिणोरन्तरे [सति] नस्य णो न स्यात् / प्रावनद्धम् / ब्रीहिकुम्भवापेन / चतुरङ्गयोगेन / रोषभीममुखेन / अनाङीति किम् ? प्राणद्धम् [प्र आङ् पूर्वः] / पर्याणद्धम् / अतद्धित इति किम् ? आर्द्रगोमयेण / परमापूपमयेण / यूषयावण // 93 // अ० निमित्तं प्रादि उपसर्गः / व्रीह्यादिपदं वा पूर्वम् / निमित्ती कार्यो नकारः / नकारस्य हि णत्वनिषेधः करिष्यते इति भावः / / व्रीहीणां कुम्भः व्रीहिकुम्भः / व्रीहिकुम्भस्य वापः / तेन // एवं माषकुम्भवापेन चतुरङ्गयोगेन रोषमीममुखेनेत्यादिषु समासः / अथवा व्रीहयः कुम्भो वापोऽस्य / एवं माषाः कुम्भो वापोऽस्य इति समासस्तदा 'वोत्तरपदान्त०' (2 / 3 / 75) इत्येनन णत्वे वा प्राप्ते, यदा तु कुम्भस्य वापः व्रीहीणां कुम्भवापः, तदा 'कवर्गकस्वरवति' (2 / 3 / 76) इत्यनेन नित्यं णत्वे प्राप्ते 'पदेऽन्तरे०' इति प्रतिषेधसूत्रं कृतम् / / ‘णहीच बन्धने'। प्राव / प्रावनह्यते स्म क्तस्य ते हस्य धः / 'अधश्चतुर्था०' (2 / 1 / 79) इति तस्य धः / 'तृतीयस्तृतीयचतुर्थे' (1 / 3 / 49) धस्य दः / प्रावनद्धम् इति सिद्धम् // गोः पुरीषं गोमयम् / 'गोः पुरीषे' (6 / 2 / 50) इति सूत्रेण मयट् / आर्द्र च तन् गोमयं च आर्द्रगोमयं तेन / / यवानां विकारो यावः 'विकारे' (6 / 2 / 30) इति सूत्रेण अण्। याव एव यावकः ‘यावादिभ्यः कः' (7 / 3 / 15) इति कः // युषेण मांसमुद्रादिरसेन मिश्रो यावकोऽलत्कतो यूपयाक्कस्तेन // 93 // 1. यत्र णत्वस्य निमित्तद्वयं भवति तत्र प्रत्यासत्त्याऽनन्तरमेव गृह्यते, अतो न रेफाश्रितं णत्वम् /