________________ 174 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलते नाम्युपान्त्यादिति किम् ? प्रवहणम् / 'स्वरात्' (2 / 3 / 95) इत्यनेन नित्यं प्राप्ते विभाषेयम् // 8 // अ० व्यञ्जनादे म्युपान्त्याद्वेति सूत्रे अलचटतवर्गशसान्तरे इत्येव-प्रभेदनम् प्रभोजनम् इति व्यावृत्तिर्ज्ञातव्या // 87 . . र्वा // 2 // 3 // 88 // अदुरित्यादिपरस्य ण्यन्तधातोर्विहितस्य स्वरपरकृनकारस्य णो वा स्यात् / प्रमङ्गणा प्रमङ्गना, प्रयापण प्रयापनम् / विहितविशेषणं किम् ? प्रयाप्यमाणः प्रयाप्यमानः इति क्यप्रत्ययव्यवधानेऽपि यथा स्यात् / अल चटतादि किम् ? प्रदापनम्, प्रतियापनम् // 8 // अ० प्रमंगणा प्रमंगना इत्यत्र 'उख नख णखे' ति दण्डकधातुमध्ये मगु / 'उदितः स्वरान्नोऽन्तः' (4 / 4 / 98 मंग् / प्रमङ्गन्तं प्रयुङ्क्ते णिग् / प्रमंग्येव प्रमंगणा / ‘णिवेत्त्यासश्रन्थघट्टवन्देरनः' (5 / 3 / 111) इति सूत्रेण अन प्रत्ययः / / प्रयापणं इत्यस्याग्रे प्रयापिणौ प्रयापिनौ / अप्रयापणिः अप्रयापनिः / प्रयापणीयं प्रयापनीयं इत्युदाहरणाति ज्ञेयानि // प्रयाप्यमाणः / प्रयाप्यमानः / प्रयाप्यमान इत्यत्र प्रपूर्वयाधातुः / णिग् / 'अत्तिरीब्लीह्रीक्नूयिक्ष्माय्यात पुः' (4 / 2 / 21) इति प अन्तः / ततो आनश् / 'क्यः शिति' (3 / 4 / 70) 'अतो म आने' (4 / 4 / 114 विहितविशेषणबलात् ण्यन्तात्पर आनश्प्रत्ययो विहितः पश्चात् क्यप्रत्ययो विहितः / ण्यन्तात्परो यदि कृत्प्रत्य यनकारोऽभूत् / तस्य क्येन व्यवधानं न भवति / इति विकल्पो न स्याद् णत्वम् / / 88 / / निर्विण्णः // 2 // 3 // 89 // निपूर्वाद् विदेः सत्तालाभविचारार्थात्परस्य क्तनकारस्य णत्वं निपात्यते / निर्विण्णः // 89 // अ० विदिच् सत्तायाम्' / 'विद्लैंती लाभे' / 'विदिं प्रविचारणे' इति त्रयोऽपि ज्ञेयाः / निर्विष्णः प्रावाजीन्मुनिः / / 89 // न ख्यापूरभूभाकमगमप्यायवेपोऽणेश्च // 2 // 3 // 90 // अदुरित्यादि परे ये ख्यादयोऽण्यन्ता ण्यन्ताश्च धातवस्तेभ्यः परस्य कृत्प्रत्ययनकारस्य णकारो न भवति प्रख्यानम् / पूग् / प्रपवनम् / भू / प्रभवनम् / भा। प्रभानम् / कम् / प्रकमनम् / गम् / प्रगमनम् / प्रगम्यमा नम् / प्रप्यानः / प्रवेपनम् / ण्यन्तेभ्योऽपि प्रख्यापनम् / प्रपावनम् / प्रभावना / प्रकामनेत्यादि // 10 // ___ अ० अथ नकारप्रतिषेधाधिकारः / न णिः / अणिः / तस्मात् / पूर्व णेरधिकारोऽस्ति इति अत्र णेश्च अणेक इति योज्यम् / सूत्रे पूग् इत्यत्र गकारः ‘पूग्श् पवने' इति क्यांदिग्राहकः / तेन 'पूङ् पवने' इति भ्वादिको न ग्राह्यः / तथा ख्यापूग्भूभेत्यादिधातूनां क्रमेण विशेषोदाहरणाली एवं बोद्धव्या / तथाहि प्रख्यानम् / प्रख्यायमानम्। प्रख्यायिनौ / अप्रख्यानिः / प्रख्यानीयम् / अत्र अनट्-आनश्-णिन्-अनि-अनीय-एवं पञ्चप्रत्यया वैयाकरणैः प्रायः प्रयुज्यन्ते / / एवं पूग् / प्रपवनम् / प्रपूयमानम् / प्रपाविनौ / अप्रपवनिः / प्रपवनीयम् / भू / प्रभवनम् / प्रभूयमानम् / प्रभाविनौ / अप्रभवनिः / प्रभवनीयम् / / भा / प्रभानम् / प्रभायमानम् / प्रभायिनौ / अप्रभानिः / प्रभानीयम् / / कम् / प्रकमनम् / प्रकम्यमानम् / प्रकामिनौ / अप्रकमनिः / प्रकमनीयम् / / गम् / प्रगमनम् / प्रगम्यमानम् / प्रगामिनौ अप्रगमनिः / प्रगमनीयम् / / प्याय् / प्रप्यानः / प्रप्यानवान् / प्रप्यायनम् / प्रप्यायमानम् / प्रप्यायिनौ / अप्रप्यायनिः / प्रप्यानीयम् / / वेप् / प्रवेपनम् / प्रवेपमानम् / प्रवेपिनौ / अप्रवेपनिः / प्रवेपनीयम् // अथ ण्यन्तेभ्योऽपि णत्वनिषेधः / प्रख्यापनम् / प्रपावनम् / प्रभावना / प्रकामना / प्रगमना / प्रप्यायना / प्रवेपना। इति सर्वत्र णत्वनिषेधः / / अण्यन्तख्यादिधातुभ्यो नकारस्य ‘स्वरात्' (2 / 3 / 85) इत्यनेन नित्यं णत्वे प्राप्ते,