________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य तृतीयः पादः 173 अदुरित्यादिपरस्य कृत्प्रत्ययनकारस्य स्वरादुत्तरस्य णः स्यात् / प्रहाणः प्रहाणवान् / एवं प्रहीणः परिहीणः, प्रयाणम् परियाणम्, प्रयायमाणम् / [णिन्] प्रयायिणौ / अप्रयाणिः अपरियाणिः / [अनीय] प्रयाणीयम् / क्तक्तवतू अन [अनट्]-आन [आनश्]-इन् अनि-अनीय इत्येते एव प्रत्ययाः प्रयोजयन्ति / स्वरादिति किम् ? प्रभुनः / अलचटतवर्गशसान्तर इत्येव-प्रक्लृप्यमानम् परिक्लृप्यमानम् प्रदानम् प्रधानम् // 85 // अ० प्रहाण-इत्यत्र 'ओहां गतौ' हा; प्रहायते स्म प्रजिहीते स्म 'क्तक्तवतू' (5 / 1 / 174) / प्रहीण इत्यत्र च 'ओहांक् त्यागे' हा, प्रहीयते स्म प्रजिहाति स्म 'ईर्व्यञ्जनेऽयपि' (4 / 3 / 97) इत्यनेन ईकारः / प्रयाणाम् परियाणम्-अत्र प्र-परिपूर्वं 'यांक प्रापणे' प्रयायते प्रयाणम् 'अनट्' / प्रयायते प्रयायमाणम् ‘शत्रानशावेष्यति तु सस्यौ' (5 / 2 / 20) / शव् / 'अतो म आने' (4 / 4 / 114) / प्रवहणीयं परिवहणीयम् इत्यपि ज्ञेयम् / नञ्प्रपूर्वो याधातुः, न प्रयाणम्, अथवा न प्रयायतेऽनेन 'नञोऽनिः शापे' (5 / 3 / 117) इत्यत्र अनिप्रत्ययः / प्रभुनः प्रभुग्नवान्-भुज् 'क्तक्तवतू' 'सूयत्याद्योदितः'. (4 / 2 / 70) इति तस्य नकारः / प्रक्लृप्यमानम्- 'कृपौङ् सामर्थ्य' प्रकृप्यते आनश् / शव् / अतो म आने' 'ऋरल्लं कृपोऽकृपीटादिषु' (2 / 3 / 99) इति सूत्रेण ऋकारस्य लुकारादेशः, 'वर्णैकदेशस्य वर्णग्रहणेन ग्रहणात्, समुदायव्यापारे च अवयवस्यापि स्वव्यापारनुच्छेदेन व्यापारात्, लुकारे उच्चार्यमाणे तदवयवस्य लकारस्याप्युच्चारणमिति अलचटेति व्यावृत्तिः प्रवर्त्तत एव / / 85 / / .. नाम्यादेरेव ने // 2 // 3 // 86 // ____ अदुरित्यादिपरस्य नागमे सति नाम्यादेरेव धातोः परस्य स्वरादुत्तरस्य कृनकारस्य [कृत्प्रत्ययनकारस्य णः स्यात् / प्रेङ्गणम् प्रेङ्गणम् / नाम्यादेरेवेति किम् ? प्रकम्पनम् / एवकार इष्टावधारणार्थः / न एव सति नाम्यादेरिति हि नियमे इह न णत्वम्-प्रेहणम् प्रोहणम् / पूर्वेण सिद्धे नियमार्थ वचनम् / न ग्रहणं नागमोपलक्षणार्थम्-नकारव्यवधाने हि णस्य प्राप्तिरेव नास्ति // 86 // ___ अ० प्रेङ्खणमित्यादिषु उखनखेत्यादि दण्डकधातुः इख् इग् प्रपूर्वम् / प्रेङ्ख्यते अनट् / कापि आनः णिन् अनि अनीय यथासम्भवं प्रत्ययाः / नाम्यादेरेव ने इति सूत्रेण सर्वत्र प्रत्ययनकारस्य णत्वम् 'वोत्तरपदान्तनस्यादेरयुव०' (2 / 3 / 75) इत्यनेन विकल्पेन णत्वं न स्यात्, ‘म्नां धुड्वर्गऽन्त्योऽपदान्ते' (1 / 3 / 39) इत्यत्र म्नां बहुवचनेन बाधित्वात् म्नां धुटेत्यत्र सूत्रे म्नामिति बहुवचनं वर्णान्तरणत्वबाधनार्थमित्युक्तमिति नोऽन्त्यस्य सर्वत्रान्त्यो वर्णोऽकारः कार्यः / नकारस्य णत्वं न कार्यमिति भावः / प्रेहणम् प्रोहणम्-'ईहि चेष्टायाम्' 'ऊहि वितर्के' प्रेह्यते प्रेहणं प्रोह्यते प्रोहणम् अनट् / अत्र ‘रवर्णे'त्यनेन णत्वम् / 'नाम्यादेरेव ने' इति सूत्रेण न भवति णत्वम्, नान्ताभावात् / नकारान्तरे सति रघुवर्णेत्यनेन णत्वं न प्राप्नोति यथा प्रेन्वनम्-प्र ‘इबु व्याप्तौ' 'उदितः स्वरान्नोन्तः' (4 / 4 / 98) / अनट् न णत्वम् / / 86 / / .. व्यञ्जनादे म्युपान्त्याद्वा // 2 // 3 // 87 // अदुरित्यादिपरो यो व्यञ्जनादिर्नाम्युपान्त्यो धातुस्ततः परस्य कृद्विषयस्य स्वरादुत्तरस्य नकारस्य णो वा स्यात् / [मिह सेचने] प्रमेहणम् प्रमेहनम् / ['कुपंच क्रोधे'] प्रकोपणम् प्रकोपनम् / [नञोऽनिः शापे] अप्रकोपणिः अप्रकोपनिः / प्रकोपणीयम् प्रकोपनीयम् / व्यञ्जनादेरिति किम् ? प्रेहणम् प्रोहणम् [ईहि चेष्टायाम्' 'उहि वितर्के'] / 1. नाम्यादिव्यञ्जनान्तादेवायं नियमः / ण्यन्तात् तु ‘णेर्वे'ति परत्वात् विकल्प एव / /