________________ 172 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलङ्कृते प्राप्नोतीति अन्तवचनम् / अनिति-अत्र तिवा निर्देशो देवादिकनिवृत्त्यर्थः [अनिच् प्राणने' इत्यस्य निषेधः, न तु यङ्लुन्निवृत्त्यर्थः // 81 // अ० 'अन श्वसक् प्राणने' इति अदादिधातुनकारस्य / प्राणिणिषति-अत्र पूर्वम् 'अन श्वसक् प्राणने' अन् / प्राणितुमिच्छति 'तुमर्हादि०' (3 / 4 / 21) इति सन् ‘स्ताद्यशितोऽत्रोणादेरिट' (4 / 4 / 32) इट् 'लोकात्' (1 / 1 / 3) परगमनम् अनि / तदनन्तरं 'स्वरादेर्द्वितीयः' (4 / 1 / 4) इति सूत्रेण नि इति द्वितीय अवयवस्य द्वित्वं कार्यम्, द्वयोरपि नकारयोर्णत्वम् / / प्राणिणत्-प्राणिति कश्चित्तं प्रयुङ्क्ते इति णिग्, दि / 'णिश्रि०' (3 / 4 / 58) ङः इकारे नकारपरगमनं कृत्वा नि इति द्वित्वम्', ततो निद्वयस्यापि णत्वम् ('उपान्त्यस्यासमानलोपि०' (4 / 2 / 35)?) इति इकारलोपः प्राणिणत् इति सिद्धम् // यो देवादिक अन् धातुः स द्वित्वेऽप्यन्तेऽप्यनितीति सूत्रे न गृह्यते, तस्य यङोऽसम्भवात् व्यञ्जनादेरभावात्, इत्यदादिः अन् गृह्यते-तत्र प्रपूर्वस्य यङो घटनात् यङि यङ्लुपि च कृते णत्वं भवतीत्यर्थः // 81 // हनः // 2 // 3 // 82 // अदुरुपसर्गान्तःस्थाद्रपुवर्णात्परस्य हन्तेर्नस्य णः स्यात् / प्रहण्यते अन्तर्हण्यते प्रहणनम् / प्रध्नन्ति प्राधानीत्यादौ तु हनो घीति प्रतिषेधान णत्वम् ('हनो घि' (2 / 3 / 94) इति वक्ष्यमाणसूत्रबलात्) // 82 // अ० प्रध्नन्ति / हन् प्रपूर्वम्, वर्तमानाअन्ति ‘गमहनजनखनघसः स्वरेऽनङि क्डिति लुक्' (4 / 2 / 44) इत्यनेन हनोऽकारलोपः, ह्र इति रूपम् ‘हनो हो घ्नः' (2 / 1 / 112) इति सूत्रेण ध्न आदेशः // प्राघानि-अत्र प्राइन् अद्यतनीत्, अधात्वादिः 'भावकर्मणोः' (3 / 4 / 68) इति सूत्रेण जिच् ‘अप्रयोगीत्' (1 / 1 / 37) इ / तकारलोपश्च 'त्रिणवि घन्' (4 / 3 / 101) इति सूत्रेण हनो घन् आदेशः ‘णिति' (4 / 3 / 50) वृद्धिः // 82 // वमि वा // 2 // 3183 // अदुरुपसर्गान्तःस्थाद्रपृवर्णात् परस्य हन्तेर्नस्य वकारे मकारे च परे वा णः स्यात् / प्रहण्वः प्रहन्वः / प्रहण्मः प्रहन्मः / प्रहण्मीत्यादि // 83 // ____ अ० आदिशब्दात् प्रहण्मि प्रहन्मि / प्राहण्वहे प्राहन्वहे / प्राहण्महे प्राहन्महे / अन्तर्हण्वः अन्तर्हन्वः / अन्तर्हण्मः अन्तर्हन्मः इति ज्ञेयानि // 83 // _निसनिक्षनिन्दः कृति वा // 2 // 3 // 8 // +अदुरित्यादिपरस्य निसनिक्षनिन्दधातुनकारस्य कृत्प्रत्यये परे णो वा स्यात् / प्रणिंसनम् प्रनिसनम् / प्रणिक्षणम् प्रनिक्षणम् / प्रणिन्दनम् प्रनिन्दनम् / कृतीति किम् ? प्रणिस्ते प्रणिक्षति प्रणिन्दति-अत्र णोपदेशत्वान्नित्यं णत्वम् // 8 // ___अ० +दुर् उपसर्गवर्जितं उपसर्गात् अन्तर्शब्दाच्च ये रकार-षकार-ऋवर्णाः, तेषां परस्य इति सर्वत्र सर्वसूत्रवृत्तौ व्याख्यानं ज्ञेयम् // ‘णिसुकि चुम्बने' 'उदितः स्वरान्नोऽन्तः' (4 / 4 / 98) णिंस् / प्रणिंसनम् प्रनिसनम् / . तथा प्रणिक्षणम्-अत्र ‘णिक्ष् चुम्बने' / प्रणिन्दनम्-अत्र 'णिदु कुत्सायाम्' 'उदितः स्वरान्नोऽन्तः' निन्द् ‘अदुरुपसर्गान्तरो णहिनुमीनानेः' (2 / 3 / 77) इति सूत्रेण // 84 / / स्वरात् // 2 // 3 // 85 // 1. स्वरसहितस्यैव दित्वविधानात् / 2. 'णेरनिटि' अनेन णिप्रत्ययगत इकार लोपः /