________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य तृतीयः पादः 171 न गृह्यन्ते // सूत्रे हि मा इति निर्देशो न अनुबन्धार्थः, किन्तु मातिमीनातिमिनोतीनां निवृत्त्यर्थः / यया रीत्या धातुपाठे माङित्यपाठि, तया रीत्या यदि सूत्रेऽपि क्रियेत तदानुबन्धार्थः स्यादित्यर्थः / / प्रणिपतति 'पत्नं पथे गतौ' / प्रतिपद्यते 'पदिंच् गतौ' / प्रणिनदति ‘णदनिविदा अव्यक्ते शब्दे' / प्रणिगदति 'गद व्यक्तायां वाचि' / प्रणिवपति 'टुवपी बीजसन्ताने' / प्रणिवहति 'वहीं प्रापणे' / 'प्रणिशाम्यति' 'शमू दमूच् उपशमे' / प्रणिचिनोति 'चिंग्ट चयने' / प्रणियाति ‘यांक प्रापणे' / प्रणिवाति ‘वांक् गतिबन्धनयोः' / प्रणिद्राति 'द्रांक् कुत्सितगतौ' / प्रणिप्साति ‘अदं प्सांक् भक्षणे' / प्रणिष्यति 'षोंच् अन्तकर्मणि' 'ओतः श्ये' (4 / 2 / 103) / प्रणिहन्ति ‘हनंक् हिंसागत्योः' / प्रतिपूर्व 'माङ् मानशब्दयोः' इति जुहोत्यादिः, मा, वर्तमानाते 'हवः शिति' (4 / 1 / 12) द्वित्वम्, 'पृभृमाहाङामिः' (4 / 1 / 58) इत्यनेन अभ्यासे इकारः ‘एषामीwळेऽदः' (4 / 2 / 97) इति धातु आकारस्य ईकारः // 'श्रौतिकृवु' (4 / 2 / 108) इति यच्छत्यादेशः / वपीवहीशमूचिग्यातिवातिद्रातिप्सातिस्यतिहन्तिदेग्धीनां केषाश्चिद्धातूनां य ईकार-उकार-गकार अनुबन्धः, केषाश्चित् यात्यादिधातूनां तिवा निर्देशश्च कृतः, स एतेषां धातूनामग्रे यङि यङ्लुपि च सति णत्वं प्रतिषेधयतीत्यर्थः इति ज्ञापितम् / 'बहुलं लुप्' यङ्लोपः ‘यतुरुस्तोर्बहुलम्' (4 / 3 / 64) ई। अत्यर्थं मिमीते 'व्यञ्जनादेरेकस्वर०' (3 / 4 / 9) इति यङ्, उभयत्र 'बहुलं लुप्' 'यङ्तुरुस्तोर्बहुलम्' बहुलबलाद्विकल्पेन ईकारः / यंत्र न ई तत्र प्रणिमामाति / यत्र च ई तत्र प्रणिमामेति // 79 / / . अकखाद्यषान्ते पाठे वा // 2 // 3 // 8 // धातुपाठे यो धातुः ककारखकारादिः, यो धातुः षान्तः षकारान्तश्च ताभ्यामन्यधातौ परेऽदुरुपसर्गान्तः स्थरघुवर्णात्परस्य नेरुपसर्गस्य वा णः स्यात् / प्रणिपचति प्रनिपचति / प्रणिभिनत्ति प्रनिभिनत्ति / प्रणिपापच्यते प्रनिपापच्यते / प्रणिपापचीति 2 // प्रण्यपीपचत् 2 / अकखादीति किम् ? प्रनिकरोति प्रनिखनति / पान्ते-[द्विषींक् अप्रीतौ] प्रनिद्वेष्टि / तथा ['विशंत् प्रवेशने'] प्रणिवेष्टा प्रनिवेष्टा / प्रणिदेष्टा इत्यादौ णत्वं वा भवत्येव पाठेऽषान्तत्वात् // 8 // ___ अ० कश्च खश्च कखौ कखावादी यस्य धातोः स कखादिः, न कखादिः अकखादिः / षोऽन्ते यस्य धातोः स षाऽन्तः, न षाऽन्तः अषाऽन्तः / अकखादिश्व अषान्तश्च तस्मिन् / / प्रनिपूर्वं पच् / पचन्तं प्रयुङ्क्ते णिग् / अद्यतनीदि ‘णिश्रुद्रु०' (3 / 4 / 58) इति ङः 'द्विर्धातुः परोक्षा०' (4 / 1 / 1) द्वित्वम् 'असमानलोपे सन्वल्ल०' (4 / 1 / 63) अभ्यासे इ 'लघोर्दीर्घोऽस्वरादेः' (4 / 1 / 64) दीर्घ ई 'ञ्णिति' (4 / 3 / 50) वृद्धिः 'उपान्त्यस्यासमानलोपिशास्वृदितो डे' (4 / 2 / 35) इत्यनेन ह्रस्वः, पश्चात् द्वित्वादिकं सर्वं कार्यम् / 'अकखाद्यषान्ते पाठे वा' इत्यस्य तत्र विषयः, यत्र पूर्वसूत्रं 'नेमादापतपदे'ति न प्रवर्तते नेमदित्यस्य विषयो यत्र न भवति इति प्रणिमयते प्रणिदयते इत्यादौ नेकदित्यनेन नित्यणत्वम् / इयमवचूरिः प्रण्यपीपचदित्यस्याग्रे ज्ञेया // 80 // द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा // 2 // 3181 // __ अदुरुपसर्गान्तःस्थरपृवर्णात् परस्य अनितेर्नकारस्य द्वित्वे च अद्वित्वे च अन्ते च अनन्ते च वर्तमानस्य णः स्यात् / परिपूर्वस्य त्वनितेर्वा णत्वम् / द्वित्वे-प्राणिणिषति प्राणिणत् / अद्वित्वे-प्राणिति [रुत्पञ्चकाच्छिदयः (4 / 4 / 88) इति इट्] / अन्ते-हे प्राण [अन श्वसक् प्राणने' प्राणितीति किप्] / परेस्तु द्वित्वे-पर्यणिणिषति पर्यनिनिषति / अद्वित्वे-पर्यणिति पर्यनिति / परेरन्ते-हे पर्यण हे पर्यन्, अनन्त्यस्येत्यधिकारादन्ते णत्वं न