________________ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलते णेति णोपदेशा धातवो गृह्यन्ते // उपसर्गाण्णत्वविधानात्-प्रणमति / परिणमति। (णीग् प्रापणे) प्रणयति // अन्तर्-अन्तर्णयति // [हिंट् गतिवृद्धयोः] हिनु-प्रहिणोति // [मींग्श् हिंसायाम्] मीनोः-प्रमीणाति // आनिप्रयाणि प्रापयाणि // अदुरिति किम् ? दुर्नयः // येन धातुना युक्ताः प्रादयस्तमेव प्रत्युपसर्गसंज्ञा भवन्ति इह न स्यात्-प्रगता नायका यस्मात् स प्रनायको देशः / प्रनृत्यतीत्यत्र अणोपदेशत्वान णत्वम् // 77 // अ० नदुः अदुः / अदुश्चासावुपसर्गश्च अदुरुपसर्गः / अदुरुपसर्गश्च अन्तश्च, तस्मात्-अदुरुपसर्गान्तरः // 'यांक प्रापणे' पञ्चमी उत्तमपुरुष एकवचनम् आनिव् ‘प्रपूर्व आप्लँट् व्याप्तौ' प्राप्नुवन्तं प्रयुङ्क्ते 'प्रयोक्तृव्यापारे णिग्' (3 / 4 / 20) पञ्चमी आनि / / सूत्रे आनि इत्यर्थवतो ग्रहणात् अनर्थकस्य आनेन णत्वम् / यथा प्रवपानि / वपनं वपा मेदोविशेषः / प्रवृद्धा वपा येषां तानि प्रवपानि 'क्लीबे' (2 / 4 / 97) इति ह्रस्वः / शस् / 'नपुंसकस्य शिः' (1 / 4/55) 'स्वराच्छौ' (1 / 4 / 65) नोऽन्तः / अत्र लाक्षणिक आनि / 'नृतौच नर्तने' इति धातुपठनकाले णकारो न पठ्यत इत्यर्थः // 77|| नशः शः // 2 // 3 // 78 // अदुरुपसर्गान्तःस्थरवर्णात्परस्य नशेः शकारान्तस्य सम्बन्धिनो नस्य णः स्यात् / प्रणश्यति, परिणाशः, अन्तर्णश्यति / श इति किम् ? प्रनष्टः // 7 // अ० नशः श इत्यत्र नशेरणोपदेशत्वात् 'नशौच अदर्शने' इति पाठात्पूर्वेण ‘अदुरुपसर्गान्तरो णही'ति सूत्रेण णकारस्याप्राप्तेः णत्वविधानार्थमिदं सूत्रं कृतम् // 78 // नेमादापतपदनदगदवपीवहीशमूचिग्यातिवातिद्रातिप्सातिस्यतिहन्तिदेग्धौ // 2 // 3 // 79 // अदुरुपसर्गान्तःस्थरघुवर्णात्परस्य नेरुपसर्गस्य माङादिधातुषु परेषु णः स्यात् / [मेङ् प्रतिदाने] प्रणिमिमीते प्रणिमयते प्रणिददाति परिणिददाति / दिङ् त्रैङ् पालने] प्रणिदयते / [दाम् दाने] प्रणियच्छति / [दों छोंच् छेदने] प्रणियति / प्रणिदधाति प्रणिधयति / पत-प्रणिपतति / पद-प्रणिपद्यते / प्रणिनदते / प्रणिगदति / प्रणिवपति / प्रणिवहति / प्रणिशाम्यति / प्रणिचिनोति / परिणियाति / प्रणिवाति / परिणिद्राति / प्रणिप्साति। प्रणिष्यति। प्रणिहन्ति परिणिहन्ति / प्रणिदेग्धि / अन्तर्णिमिमीते॥ अडागमस्य धात्ववयवत्वेन व्यवधानत्वाभावात् प्रण्यमिमीत इत्यादावपि णः स्यात् / वप्यादीनामनुबन्धेन तिवा च निर्देशो यङ्लुपि णत्वनिवृत्त्यर्थः, तेन प्रनिवावपीतीत्यादौ न णत्वम् / पूर्वेषु माङादिषु यङ्लुपि णत्वं स्यादेव-प्रणिमामाति प्रणिमामेतीत्यादि // 79 // ___ अ० प्रणिदधाति-अत्र 'डुधांग्क् धारणे' 'हवः शिति' (4 / 1 / 12) 'द्वितीयतुर्ययोः पूर्वी' (4 / 1 / 42) / प्रणिधयतीत्यत्र 'ट्धे पाने' / प्रणिदेग्धि 'दिहींक लेपे' वर्तमानाति 'लघोरुपान्त्यस्य' (4 / 3 / 4) गुणः 'भ्वादेर्दादेर्घः' (2 / 1 / 83) हस्य घः 'अधश्चतु०' (2 / 1 / 79) तस्य धः 'तृतीयस्तृतीयचतुर्थे' (1 / 3 / 49) घस्य ग् / / सूत्रे दा इत्युक्ते चत्वारो दारूपा द्वौ धारूपौ एवं 6 धातवो दासंज्ञको ग्राह्याः, तथाहि-'दां दाने' 'देङ् त्रैङ् पालने' इति भू(भ्व ?)वादिको 2 / 'डुदांग्क् दाने' इत्यदादिः 1 / 'दों छोंच् च्छेदने' इति देवादिकः 1 / 'धे पाने' इति भू(भ्व ?)वादिकः 1 / 'डुधांग्क् धारणे' इत्यदादिः एवं धारूपः 2 / एताः षडप्यत्र गृह्यन्ते / सर्वेषामुदाहरणानि 'वृत्तौ-प्रणिददातीत्यादि / / डकारोपलक्षितो मा मा, तेन 'माङ्क मानशब्दयोः' इत्यस्य 'मेङ् प्रतिदाने' इत्यस्य च धातोर्ग्रहणम् / 'मांक माने' माति, 'मींग्श् हिंसायाम्' मीनाति 'डुमिंग्ट् प्रक्षेपणे' मिनोति; एते त्रयोऽत्र