________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य तृतीयः पादः 169 विकल्पमिति / पुरुषश्च वारि च पुरुषवारिणी 'औरीः' (1 / 4 / 56) 'अनामस्वरे नोऽन्तः' (1 / 4 / 64) / आदिशब्दात् माषवापेण भाषवापेन, व्रीहिवापाणाम् व्रीहिवापानाम्, माषवापाणाम्, माषवापानाम् // आर्यश्चासौ युवा च आर्ययुवा / तृतीयाटा 'श्वन्-युवन्-मघोनो ङी स्याद्यघुट्स्वरे व उः' (2 / 1 / 106) इत्यनेन वकारस्य उत्वम् आर्ययू / / प्रपक्वेत्यत्र 'झैशुषिपचो मकवम्' (4 / 2 / 78) इत्यनेन क्तस्य वकारः / / वोत्तरपदेति सूत्रे अलचटतवर्गशसान्तर इत्येव-गर्दभवाहिनः इति व्यावृत्त्युदाहरणं ज्ञातव्यम् / / गर्गाणां भगः / गर्गभगोऽस्यास्तीति इन् / ङी / अत्रोत्तरपदस्यान्ते नकारो नहि-एकपदत्वात्, इति नित्यमेव रघुवर्णेत्यनेन णत्वम्, यदि च गर्गाणां भगिनीति समासः, तदापि न णत्वम्, अन्ते नकाराभावात्, अन्ते च ङीः, नतु नकारः / उत्तरपदेति किम् ? अन्तादिग्रहणं किम् ? इति व्यावृत्तावयं विशेषः-त्रि अहन्, चतुर् अहन् त्रिषु अहस्सु भवः त्र्यह्नि, चतुर्षु अहस्सु भवः चतुरहनि 'सर्वांशसङ्ख्याव्ययात्' (7 / 3 / 118) अट् अह्लादेशश्च ‘भवे' (6 / 3 / 123) अण् ‘द्विगोरनपत्ये यस्वरादेर्लुबद्विः' (6 / 1 / 24) अणो लुक्, सप्तमीङि, 'सङ्ख्यासाय०' (1 / 4 / 50) इति अहन् 'ईडौ वा' (2 / 1 / 109) // 75 / / कवगैकस्वरवति // 2 // 3 // 76 // पूर्वपदस्थरघुवर्णात्परस्य कवर्गवति एकस्वरवति चार्थादुत्तरपदे सति उत्तरपदान्तस्य नागमस्य स्यादेश्व नकारस्यणः स्यात्, पकसम्बन्धी नकारो यदि न स्यात् / स्वर्गकामिणी, स्वर्गगामिणी, वृषगामिणौ / स्वर्गगामिणी। स्वर्गकामाणिं 'कुलानि [जस् शस् वा 'स्वराच्छौ' (1 / 4 / 65) नोऽन्तः)। उरःकेण, गुरुमुखेण / एकस्वरब्रह्महणी, क्षीरपाणि, क्षीरपेण, यूषपेण उरःपेण / अपकस्येत्येव-क्षीरपकानि, यूषपकेन, क्षीरपकानाम् / अलचटतवर्गशसान्तर इत्येव-द्रव्यत्यागेन; माषत्यागिनः // 76 // अ० कवर्गश्च एकस्वरश्च कवर्गकस्वरौ / कवर्गकस्वरौ विद्यतेऽस्य उत्तरपदस्य / 'तदस्य०' (7 / 2 / 1) इति मत् / 'मावर्णान्त०' (2 / 1 / 94) इति मस्य व / तस्मिन् / अथवा उत्तरपदे आदौ अन्ते वा एकस्वरः, कोऽर्थः ? एकस्वरसंयुक्तं व्यञ्जनं भवति ईदृशे उत्तरपदान्ते नकारस्य णत्वं इत्यर्थः / तथा स्वर्गकामिणौ इत्याद्यारभ्य गुरुमुखेन इत्यन्तं यावत् कवर्गसंयुक्तोत्तरपदान्तनकार उदाहरणानि ज्ञातव्यानि / स्वर्ग कामयते इत्येवंशीलो 'अजातेः शीले' (5 / 1 / 154) णिन् वृषे गच्छन् इत्येवंशीलो स्वर्गं गच्छतीत्येवंशीला 'अजातेः शीले णिन्' / मोक्षकामाणि' इत्यपि ज्ञेयम् / / उरस्. के - रै शब्दे' के, ‘आत् सन्ध्यक्षरस्य' (4 / 2 / 1) का / उरः कायतीति उरः कः ‘आतोडोऽहावामः' (5 / 1176) इति डः / जस् शस् वा / / गुरुमुखेण इत्यस्याग्रे ऋषिमुखेण क्षीरमेघाणामित्यपि ज्ञातव्यानि / / ब्रह्म हतवन्तौ ब्रह्महणौ 'ब्रह्मभ्रूणवृत्रात् किप्' (5 / 1 / 161) औ / क्षीरं पिबन्ति यानि तानि क्षीरपाणि 'आतो डोऽह्वावामः' इति डः / जस् शस् वा / क्षीरं पिबतीति यूषं पिबतीति डः उरस्. "पै ओ शोषणे' 'आत्सन्ध्यक्षरस्य' पा, उः पायतीति ‘आतो डो ह्वा०' डः, तेन // क्षीरे पच्यन्ते स्म क्षीरपक्कानि / पच्यन्ते स्म पक्कानि 'क्तक्तवतू' (5 / 1 / 174) / एवं यूषपक्केनेति / / 'त्यजं वयोहानौ' त्यज्, त्यजनं त्यागः ‘भावाकोंः ' (5 / 3 / 18) घञ् 'क्तेऽनिटश्चजोः कगौ घिति' (4 / 1 / 111) जस्य गः 'ञ्णिति' (4 / 3 / 50) वृद्धिः, त्यागः द्रव्यस्य त्यागः तेन / पाषाणां त्यागो विद्यते येषां ते माषत्यागिनः // 76 / / __ अदुरुपसर्गान्तरो णहिनुमीनानेः // 2 // 3 // 77 // दुर्व|पसर्गस्थादन्तःशब्दाच रघुवर्णात्परस्य णकार-हिनु-मीना-आनिसम्बन्धिनकार स्य णः स्यात् / 1, 2 स्वर्ग/मोक्षं कामयन्ते ‘शीलिकामिभक्ष्या०' / 5 / 1 / 73 // इति अनेन णः /