________________ 168 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलते - अतोऽहस्य // 2 // 3 // 73 // पूर्वपदस्थवर्णादकारान्तात्परस्याहशब्दसम्बन्धिनकारस्य णः स्यात् / पूर्वाह्नः / अपराह्नः // अह्न इत्यकारान्तनिर्देशादिह न भवति-दीर्घाह्री शरत् // 73 // ___ अ० पूर्वमह्नः पूर्वाह्नम् / अपरमह्नों अपराह्नम् ‘सर्वांशसङ्ख्याव्ययात्' (7 / 3 / 118) इति सूत्रेण अट्समासान्तः, अहन्शब्दस्य च अह्न इति आदेशः 'अतोऽहस्य' इति अह्रनकारस्य णत्वं कार्यम् / अत इति किम् ? निरहः, दुरह्नः, अत्रापि निःक्रान्तोऽहः, दुष्टत्वमह्नः 'सर्वांशः' इति अट्, अह्रादेशश्च / / दीर्घ. अहन् दीर्घाणि अहानि यस्यां शरदि सा दीर्घाही 'अनो वा' (2 / 4 / 11) इति सूत्रेण डीप्रत्ययः / ‘ईडौ वा' (2 / 1 / 109) इत्यनेन अनोऽकारस्य लोपः // 73 // चतुस्नेहयनस्य बयसि // 2 // 3 / 74 // चतुर्बिभ्यां पूर्वपदाभ्यां परस्य हायननकारस्य वयसि गम्यमाने णः स्यात् / [चत्वारो हायना यस्य] चतुर्दायणो वत्सः / त्रिहायणी वडवा [तुरङ्गी] / वयसीति किम् ? चतुर्हायना त्रिहायना शाला // 7 // अ० वयसीति किम् ? कालकृता प्राणिनां शरीरावस्था वय इत्युच्यते / चत्वारो हायना यस्याः, एवं त्रयोहा०अत्र शालाया निष्पत्तियिनैत्रिभिः, चतुर्भिः / अथवा अस्याः शालायाश्चत्वारो हायना जाता इति वयो नास्ति / वयोऽभावात् 'सङ्ख्यादेर्हायनाद्वयसि' (2 / 4 / 9) इति ङीप्रत्ययोऽपि नाभूत् // 74 / / वोत्तरपदान्तनस्यादेरयुवपक्काह्नः // 2 // 3 // 75 // पूर्वपदस्थरपृवर्णात्परस्य उतरपदान्तभूतस्य नागमस्य स्यादेश्च नकारस्य णो वा स्यात्, स नकारो यदि युवन्-पक-अहन् सम्बन्धी न स्यात् / उत्तरपदान्त. व्रीहिवापिणी व्रीहिवापिनी इत्यादि / नागम. व्रीहिवापाणि' व्रीहिवापानि कुलानि [स्वराच्छौ (1 / 4 / 65) इति नोऽन्तः] इत्यादि / पुरुषवारिणी इत्यत्र तु परमपि विकल्पं बाधित्वाऽन्तरङ्गत्वादेकपदाश्रितं 'रफुवर्णे'ति सूत्रेण नित्यमेव णत्वम् / स्यादि. ब्रीहिवापेण व्रीहिवापेन इत्यादि / ब्रीहिवापानित्यत्र त्वनन्त्यस्येत्यधिकारान णत्वम् / अयुवपक्काह्न इति किम् ? आर्ययूना / प्रपक्कानि, परिपका. नाम् / दीर्घाह्री / दीर्घाहा [तृतीयाटा] निदाघेन / त्यह्नि / चतुरहनि // 5 // ____ अ० उत्तरं च तत् पदं च उत्तरपदम्, उत्तरपदस्य अन्तः उत्तरपदान्तः / उत्तरपदान्ते नञ्च स्यादिश्च उत्तरपदान्तनस्यादिः / उत्तरपदान्तविषयोदाहरणानि व्रीहिवापिणौ व्रीहिवापिनौ, आंदिशब्दात् माषवापिणौ माषवापिनौ, व्रीहिवापिणः, माषवापिणः / व्रीहिवापिणी व्रीहिवापिनी कुले, व्रीहिवापीणि व्रीहिवापीनि कुलानि / व्रीहिवापिणा व्रीहिवापिना // अथ नागमोदाहरणानि-व्रीहिवापाणि व्रीहिवापानि कुलानि / एवं माषवापाणि / 'इबु व्याप्तौ च' इन्, ‘उदितः स्वरान्नोऽन्तः' (4 / 4 / 98) इन्व् / प्रपूर्वम् / प्रेन्व्यते प्रेण्वनम् प्रेन्वनम् ‘अनट्' (5 / 3 / 124) ततो नागमस्य वोत्तरपदेति णत्वम् / प्रेण्वनम् इति सिद्धम् / एवं 'हिवु प्रीणने' 'पिवु सेचने' हि पिव्, 'उदितः स्वरान्नोन्तः' हिन्व् पिन् / हिन्वतीति पिन्वतीति ‘शत्रानशावेष्यति तु सस्यौ' (5 / 2 / 20) इति शतृप्रत्ययः, वोत्तरपदेति नागमस्य णत्वम्, प्रथमासिः, प्रहिण्वन् प्रहिन्वन्, प्रपिण्वन् प्रपिन्वन् इति विशेषप्रयोगाः // युवा च पक्वश्च अहश्च० / न युवपक्काहोऽयुवपक्काहः, तस्य० / व्रीहीन् पुनःपुनर्वपन्तीति व्रीहिवापी 'व्रताभीक्ष्ण्ये' (5 / 1 / 157) इति सूत्रेण णिन्, तौ व्रीहिवापिणौ, माषवापिणावत्राप्येवं कार्यम् वोत्तरपदेति सूत्रेण क्रियमाणं णत्वं परम्, अत उक्तम्-परमपि 1. व्रीहीन्वपति 'कर्मणोऽण्' / 5 / 172 / इति अनेन अण् /