________________ श्रीसिद्धहेमशब्दानुशासने द्वितीयाध्यायस्य तृतीयः पादः 167 इति नाम्ना उच्यन्ते / ये च पुष्पैर्विनाऽपि फलवन्तो भवन्ति ते फली इति वनस्पतय उच्यन्ते यथा पञ्चुम्बरी / शेषाश्च ये पुष्यन्ति फलन्ति; पुनः पुनः स्वऋतौ पुष्पफलान्याश्रयन्ति ते वृक्षा इत्युच्यन्ते // विदारी लताविशेषः कन्दविशेषः / शिरीषाणामदूरभवो ग्रामोऽपि शिरीषास्तेषां वनं शिरीषवनम् / / इरिकावनम्, तिरिकावनम्, तिमिरवनम्, चीरिकावनम्, करिवनम्, खीरवनम्, हरिवनमिति प्रयोगा ज्ञातव्याः // 67|| गिरिनद्यादीनाम् // 2 // 3 // 68 // - गिरिनद्यादिशब्दनकारस्य वा णः स्यात् / [गिरेर्नदी] गिरिणदी गिरिनदी। वक्रणदी वक्रनदी। [गिरेनितम्बः] . गिरिणितम्बः गिरिनितम्बः / वक्रनितम्बेत्यादि // 68 // ___ अ० गिरिनदी गिरिनख गिरिनद्ध गिरिनितम्ब वक्रनदी वक्रनितम्बा माषोन तूर्यमान आगर्यन; बहुवचनाद्यथादर्शनमन्येऽपि ज्ञेयाः // 68 // पानस्य भावकरणे // 2 // 3 // 69 // पूर्वपदस्थरघुवर्णेभ्यः परस्य भावे करणे च पानशब्दस्य नस्य [नकारस्य] णो वा स्यात् / क्षीरपाणम् क्षीरपानं वर्त्तते इत्यादि / करणे-क्षीरपाणम् क्षीरपानं भाजनमित्यादि [आदिशब्दात् कषायपाणः कंसः-पीयतेऽस्मिन्निति पानः] / भावकरण इति किम् ? क्षीरपानो घोषः [क्षीरस्य पानो यत्र स क्षीरपानः] // 69 // ___ अ० 'पां पाने' पीयते क्षीरस्य पीतिः क्षीरपाणम् / 'अनट्' (5 / 3 / 124) भावे / अथ करणे क्षीरं पीयतेऽनेन क्षीरपाणम् ‘करणाधारे' (5 / 3 / 129) इति अनट् करणे / / आदिशब्दात् कषायपाणम् कषायपानम् वर्त्तते / सौवीरपाणम् सौवीरपानम् इति भावे // 69 / / देशे // 2 // 3 // 7 // पूर्वपदस्थरपृवर्णात्परस्य पाननस्य [पानशब्दनकारस्य] णो नित्यं स्यात्, देशे-समुदायेन चेद्देशो गम्यते / योगविभागानवेति निवृत्तम् / क्षीरपाणा उशीनराः॥ सुरापाणाः प्राच्याः। सौवीरपाणा वाहीकाः [सुरा पानमेषां सौवीरं पानमेषाम्] // तात्स्थ्यान्मनुष्याभिधानेऽपि देशो गम्यते // 7 // अ० पीयते इति पानम्, क्षीरं पानमेषां ते क्षीरपाणा उशीनराः / देश इति किम् ? क्षीरपाना गोपालकाः, क्षीरं पानमेषां ते क्षीरपानाः // 70 // ग्रामाग्रानियः // 2 // 3 // 71 // ग्रामाग्राम्यां परस्य नियो नस्य [नकारस्य] णः स्यात् / ग्रामणीः / अग्रणीः // 71 // वाह्याद्वाहनस्य // 2 // 3 // 72 // वाह्यवाचिनः पूर्वपदस्थरपृवर्णात्परस्य वाहनस्य सम्बन्धिनस्य [नकारस्य] णः स्यात् / इक्षुवाहणम् शरवाहणम् / वाह्यादिति किम् ? सुरवाहनम् / नरवाहनः // 72 // अ० वोढव्यम् वाह्यम्, तस्मात् / 'वहीं प्रापणे' उह्यतेऽनेनेति वहनम् ‘करणाधारे' (5 / 3 / 129) अनट्, वहनमेव वाहनम् प्रज्ञादिभ्योऽण्' (7 / 2 / 165) इति अण् / अतो वा निपातनात् उपान्त्यदीर्घत्वम् / सुराणां वाहनं सुरवाहनम्-अत्र सम्बन्धमात्रमेव विवक्षितम् / नरो वाहनं यस्य धनदस्य स नरवाहनो धनदः // 72 / /