________________ 180 'कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलते वेत्तीति विद्वान् ‘वा वेत्तेः क्वसुः' (5 / 2 / 22) / स्त्री चेत् विदुषी / 'कसुष्मतौ च' (2 / 1 / 105) इत्यनेन वस्स्थाने उष् / / सुकन् / 'कसुकि गतिशातनयोः' कस् / सुहिन् 'हिसु तृहप् हिंसायाम्' हिस् ‘उदित०' (4 / 4 / 98) इति नोऽन्तः / सुष्ठुक्तं सु / सुष्ठु हिनस्तीति विप् / सिलोपे च ‘पदस्य' (2 / 1 / 89) इति सूत्रेण सकारस्य लोपः // 2 / / अश्वः // 2 // 4 // 3 // अञ्चन्तानाम्नः स्त्रियां ङीः स्यात् / प्राची / अपाची / प्रतीची / उदीची // 3 // ___ अ० प्राची इत्यादि / प्र अप प्रति उत्पूर्वक 'अञ्चू गतौ' च अच् / प्राञ्चतीति अपाश्चतीति प्रत्यञ्चतीति उदञ्चतीति किप् / 'अञ्चोऽनर्चायाम्' (4 / 2 / 46) इत्यादिना नलोपः / 'अच्च् प्राग्दीर्घश्च' (2 / 1 / 104) इत्यनेन अच्स्थाने च् आदेशः पूर्वस्वरस्य दीर्घः / प्राची अपाची प्रतीची इति सिद्धम् / उदीची इत्यत्र ‘उदच उदीच' (2 / 1 / 103) इत्यनेन उदीच् आदेशः / 'अञ्चः' इति सूत्रेण ङीकृते एव / पश्चात् 'अच्च' प्राग०' इति कर्त्तव्यम् / / 3 / / णस्वराघोषाद्वनो रश्च // 2 // 4 // 4 // णकारान्तात् स्वरान्तादघोषान्ताच यो विहितो वन्प्रत्ययस्तदन्तात् ङीः स्यात् स्त्रियाम्, ङीयोगे वनोऽ. न्तस्य च रकारः / ण. अवावरी / स्वर. [धीवानमतिक्रान्ता] धीवरी / अतिधीवरी / पीवरी / सहकृत्वरी। अघोष. मेरुदृश्वरी। णस्वराघोषाति किम् ? सहयुध्वा स्त्री [सह युध्यति ‘सहराजभ्यां कृग्युधेः' (5 / 1 / 167) कनिप्]। विहितविशेषणं किम् ? शर्वरी / [सि / 'नि दीर्घः' (1 / 4 / 85)] अत्र स्वरात्कृतत्वाद्गुणे कृते घोषवतो यथा स्यात् / वन इति किम् ? शुनी / नान्तत्वादेव डीसिद्धः / तनियमार्थ रकारार्थ वचनम् // 4 // __ अ० णस्वराघोषाद्वनो रश्चेत्यत्र वात् वकारात् न् वन् / तस्य नकारस्य रः इति युक्तम् / अन्यथा वन्प्रत्ययस्य सर्वस्य रकारः स्यात् / वन् इति वनक्कनिप्वनिपामविशेषेण ग्रहणम् / अवावरी ‘ओण अपनयने' ओण् / ओणतीति 'मन्वन्क्वनिप्विच क्वचित्' (5 / 1 / 147) इत्यनेन वन्प्रत्ययः / 'वन्याङ् पञ्चमस्य' (4 / 2 / 65) इत्यनेन णकारस्य आकारः / 'ओदौतोऽवाव्' (1 / 2 / 24) अवावन्शब्दः / ‘णस्वरेति' ङी / नकारस्य रकारश्च / धीवरी इत्यत्र धाधातुः / दधातीति ‘मन्वन्०' वन् 'ईय॑ञ्जनेऽयपि' (4 / 3 / 97) इति ई / पश्चात् ङी नस्य र धीवरी // पीवरी-पिबतीति पीवरी वन् 'ईर्व्यञ्जने० (4 / 3 / 97) ई / सहकृत्वरी / अत्र सह कृ / सहंकृतवती इति वाक्ये 'सहराजभ्यां कृणुयुधेः' (5 / 1 / 167) इति सूत्रेण कनिप् ‘हस्वस्य तः पित्कृति' (4 / 4 / 113) तोऽन्तः / एवं राजकृत्वरी / राजानं कृतवती 'सहराज०' क्वनिप् तोऽन्तः / सुत्वरी / सुनोतीति 'सुयजोर्ध्वनिप्' (5 / 1 / 172) तोऽन्तः / ततो डी / नस्य च रः / मेरुदृश्वरी मेरुं दृष्टवती ‘दृशः क्वनिप्' (5 / 1 / 166) पश्चात् ‘णस्वरेति' ङी / नकारस्य च रः / शर्वरी 'कृगृशृश् हिंसायाम्' श्रृणोतीति शर्वरी / 'मन्वन्कनि०' वन् / गुणः / अत्र स्वरात्परो वन् कृतः / पश्चात् गुणः कृतः / इति सूत्रार्थयुक्तिप्राप्तेः ङी-रकारौ जातौ / शुनी इत्यत्र 'वोश्वि गतिवृद्धयोः' श्वि / 'वन्मातरिश्वन्मूर्धन्प्लीहन्नर्यमन्विश्वप्सन्परिज्वन्महन्नहन्मघवन्नथर्वनिति' (902) इत्युणादित्वात् अन् / अन्तलोपे वस्य न् नान्तत्वात् 'स्त्रियां नृतो०' (2 / 4 / 1) ङीः सिद्धः / एवं मघोनी 'श्वयुवन्मघोनो ङी०' (2 / 1 / 106) इत्यादिना वकारस्य उकारः / तन्नियमार्थमित्यादि / णस्वराघोषादेव वनो ङीर्भवति / तेन सह युध्वा इत्यादौ 'स्त्रियां नृतो०' इति ङीर्न भवतीति तन्नियमार्थं सूत्रं कृतमित्यर्थः / / 4 / / वा बहुव्रीहेः // 2 // 4 // 5 //