SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ बिलणः। ख्रिस्ताब्द एव समाप्तोऽभूदिति ऑनरेबल्. ए. के. फॉस्प्रणीत रासमाला'ख्यगुजरातदेशेतिहासग्रन्थे प्रसिद्धमेव.एकादशशतकोत्तरभागे गुर्जरदेशे बिहणः समागत इति त्वसंदिग्धम्. गुर्जरदेशे च बिहणेन कश्चन क्लेशोऽनुभूत इति 'कक्षाबन्धं विदधति न ये सर्वदैवाविशुद्धास्तद्भाषन्ते किमपि भजते यज्जुगुप्सास्पदत्वम् / तेषां मार्गे परिचयवशादर्जितं गुर्जराणां यः संतापं शिथिलमकरोत्सोमनाथं विलोक्य // ' अस्माद्विक्रमाङ्कदेवच. रितस्थ(१८ / ९७)पद्यात्प्रतीयते. एवं कल्याणनगरेऽपि कुन्तलाधीशतो भूयांसमैश्वर्यमधिगत्यापि कांचन विपत्तिं बिहूणोऽनुभूतवानिति 'सर्वस्वं गृहवर्ति कुन्तलपतिलातु तन्मे पुनर्भाण्डागारमखण्डमेव हृदये जागर्ति सारस्वतम् / रे क्षुद्रास्त्यजत प्रमोदमचिरादेष्यन्ति मन्मन्दिरं हेलान्दोलितकर्णतालकरटिस्कन्धाधिरूढाः श्रियः // ', 'अयि किमनिशं राजद्वारे समुद्भुरकंधरे कुवलयदलस्निग्धे मुग्धे विमुञ्चसि लोचने / अमररमणीलीलावल्गद्विलोचनवागुराविषयपतितो न व्यावृत्तिं करिष्यति बिह्नणः // ' अस्मात्कश्मीरदेशीयचौरीसुरतपञ्चाशिका(चौरपञ्चाशिका)पुस्तकप्रारम्भस्थश्लोकद्वयाज्ज्ञायत. चौरपश्चाशिका, विक्रमाङ्कदेवचरितम्, कर्णसुन्दरीनाटिका चेति ग्रन्थत्रयमद्यावधि बिह्नणप्रणीतं समुपलब्धमस्ति. तत्र चौरपञ्चाशिका तावत्सुप्रसिद्धैव. विक्रमाङ्कदेवचरितं च जैसलमेरनगरात् डॉक्टरबूलरेणासादितम्, प्रसिद्धिं च नीतम्. कर्णसुन्दरी तु नाद्यापि प्राकाश्यमाप्तवती. पूर्ववर्षे ग्वाह्रनगरनिवासिपण्डितगङ्गाधरजोशीसकाशादेकं कर्णसुन्दरीपुस्तकमस्मन्मित्रै राजगुरुपर्वणीकरोपाह्वनारायणभट्टैः प्राप्तमस्मभ्यं समपितं च. एतत्पुस्तकं प्रायः शुद्धं केनचित्संशोधकेन क्वचित्वचिदशुद्धतां नीतं शतत्रयवर्षप्राचीनमिवोपलक्ष्यमाणमस्ति. अस्मिन्पुस्तके पञ्चाशन्मितानि पत्राणि, प्रतिपृष्ठं षट्पतयः, प्रतिपहिं च षडिशत्यक्षराणि सन्ति. पत्राणि च षडङ्गुलमितानि विस्तारे सार्धत्रयोदशाङ्गुलमितानि च दैर्ये वर्तन्ते. पञ्चाशन्मितपत्रान्तिमपतिसमाप्तौ 'समाप्ता चेयं कर्णसुंद-' इत्यस्ति. एतेनापरमप्येकं पत्रमासीत्, तस्मिन्पुस्तकलेखनकालोऽपि कदाचित्स्यादिति भाति. अन्यदप्येकं पुस्तकमस्मन्मित्रपण्डितज्येष्ठाराममुकुन्दजीशर्मणां साहाय्येन मुम्बईनगरमण्डनसत्कविपण्डितवरगट्ठलालाजीशर्मणां पुस्तकसंग्रहादुपलब्धम्. किं त्वेतत्पुस्तकमत्यशुद्धं पत्रत्रयहीनं ग्वाह्वेरपुस्तकस्यैव प्रतिरूपकमिव प्रतीयमानमस्तीति नात्र तस्य कश्चिदुपयोगो जातः. केवलमकस्माद् ग्वाह्वेरपुस्तकादेवैतन्मद्रणमस्माभिर्विहितम्. कर्णसुन्दयो चास्यां पूर्वोक्तश्चालुक्यवंशोद्भवो भीमदेवात्मजः कर्णराज एव कथानायकः. अन्यवृत्तं तु प्रायः कविकल्पितमस्तीति भद्रम्. . 1. डॉक्टरबूलरस्य कश्मीर रिपोर्ट'पुस्तकं द्रष्टव्यम्. 2. विक्रमाङ्कदेवचरितादिध्वनुपलभ्यमानाः केचन श्लोकाः शाङ्गधरपद्धति-सूक्तिमुक्तावल्यादिषु बिहणनाम्रा समुदूताः समुपलभ्यन्त इत्यस्ति कश्चिदन्योऽपि ग्रन्थो बिह्नणप्रणीत इति प्रतीयते.
SR No.004400
Book TitleKavyamala
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1988
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy