SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। बिह्नणचरिताभिधे खण्डकाव्ये तु “गुर्जरदेशे अनहिलपत्तनाभिधे नगरे वैरिसिंहाभिधो नरपतिः, सुताराभिधा अवन्तिभूपालदुहिता तन्महिषी चासीत् / तयोरेका शशिकलानाम्नी कन्या समुत्पन्ना / सा च क्रमेण यौवनारूढातिरूपलावण्यवती पित्रोः सुतरामानन्ददायिनी बभूव / तत्पिता तु नित्यं तदध्यापनचिन्ताकुलस्तस्थौ / अ. स्मिन्नवसरे काश्मीरको बिह्नणकविस्तत्र समायातः / नीतश्च राजपुरोहितेनातिकोतुकान्महीपतिसमीपम् / वैरिसिंहमहीपतिरपि निरुपमं तद्विद्याचमत्कारमतिमधुरां च तदीयकवितामाकर्ण्य बहुसंपत्तिसमर्पणपूर्वकं साभ्यर्थनं च नियोजितवान्स्वदुहितुः शशिकलायाः पाठने / सापि पितुराज्ञानुकलं बाल्योचितां शुकशारिकादिक्रीडामपहाय निजगुरुं बिलणं शुश्रूषमाणा विद्याभ्यासं कुर्वती स्वल्पैरेव दिवसैः संस्कृतप्राकृतादि सर्वमधीतवती / एकदा चातिसुरभिगन्धसंचाररुचिरे पुष्पमालादिपरिष्कृते प्रासादे राजसुतां कामशास्त्रं पाठयन्कविरासीत् / तदा च रूपयौवनविद्याविनयादिगुणगणसंपन्ने तस्मिन्कविवरे बद्धभावा शशिलेखा नानाविधैर्हावैस्तस्य चित्तमात्मायत्तं चकार / देवनोदितः काममोहितश्च कविरपि प्राग्जन्मजायायास्तस्या गूढं गान्धर्वविधिना पाणि जग्राह / रञ्जयामास च मन्मथतन्त्रप्रतिपादिताभिर्बहुविधाभिः केलिभिर्विविधाभिश्च बन्धक्रियाभिनरेन्द्रपुत्रीम् / एवं सुखमनुभवतोस्तयोरतिक्रान्ते कियत्यप्यनेहसि रक्षापुरुषा राजसुतायास्तप्ततपनीयकान्तीन्यङ्गानि म्लायमानशिरीषकुसुमोपमानि संभोगचिह्नाङ्कितानि चालोक्य, विज्ञाय च कथमपि सर्व गूढं चरितं राज्ञे निवेदयांचक्रुः / राजापि वज्रनिपातोपमं तद्वृत्तमाकर्ण्य रोषेण प्रज्वलन्नादिदेश बिह्वणस्य शूलारोपणम् / तदैव घातुकपुरुषैः शूलाधिरोपणस्थलं नीतो बिहणः, उक्तश्च-'भो वध्य, संनिहितस्तवाधुना मृत्युः / स्मर निजामाराध्यदेवताम्' इति / बिह्नणोऽपि राजसुतासक्तमना मृत्युभयमप्यगणयन् 'अद्यापि तां कनकचम्पकदामगौरीं' इत्यादि शशिलेखास्मरण. रूपां पश्चाशिकां समुदीरितवान् / अत्रान्तरे प्राणप्रियाया निजसुतायास्तस्मिन्गाढमनरागं निजमहिषीमुखादाकर्ण्य किंचिच्छिथिलितकोपो बिहणगुणगणवशीकृतस्वान्तैः पौरैः परिजनैर्मन्त्रिभिर्बोधितश्च ब्राह्मणवधभीरुनरेन्द्रः परमेश्वरेच्छामेव तादृशी मन्यमानो निवारयामास कविं शुलारोपणात् / समर्पितवांश्च तदैव तस्मै शशिलेखाम्, बहुग्रामगजतुरगसुवर्णरत्नादिसमृद्धिं च / एवं मृत्युमुखान्मुक्तो बिलणकविनृपतिप्रसादमासाद्य शशिलेखया समं चिरं सुखमनुबभूव' इति कथा वर्तते. परमियं कथा नातिविश्वासार्हा, यतो बिलणः ख्रिस्ताब्दीयैकादशशतकोत्तरार्धे कश्मी. रान्परित्यज्य समागतस्तदा अनहिलपत्तने चालुक्यवंशोद्भवो भीमदेवसूनुः कर्णराजो महीपतिरासीत्, न तु वैरिसिंहः. चापोत्कट(चावडा)वंशोद्भवो वैरिसिंहस्तु 920 मिते 1. बिहूणचरितप्रणेतुर्नाम नोपलभ्यते. 2. 'वीरसिंहः' इत्यपि नाम पुस्तके वर्तते. 3. पुस्तकान्तरे 'सुनारी' इति पाठोऽस्ति. 4. कर्णराजस्य राज्यसमयस्तु 1072 मितात्विस्ताब्दादारभ्य 1094 मितख्रिस्ताब्दपर्यन्तमासीत्..
SR No.004400
Book TitleKavyamala
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1988
Total Pages360
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy