________________ * 102 काव्यमाला / कर्तारं कतिचित्किलानुमिमते कार्यार्थमुक्दिभिः केऽप्याहुः पुरुषस्य यस्य पुरतः सृज्यं प्रकृत्या जगत् / क्लेशैः कर्मभिराशयैश्च सकलैरस्पृष्टरूपोऽखिल. प्रज्ञोऽनादिगुरुः स ईश्वर इति व्याख्यन्ति केचित्तु यम् // 14 // अपि च / श्रुतमिति निगमान्तेष्वेकमेवाद्वितीयं निरवधि परिपूर्ण ब्रह्म सच्चित्सुखात्म। . .. विलसति किल यस्मिन्विश्वमेतत्तमिने स्रजि फणिवदबोधादित्थमाहुः किलान्ये // 15 // मन्त्री-तत्तादृशमेनमवाङ्मनसगोचरमहिमानं पङ्कजासनपाकशासनप्रभृतयो देवाः प्रणमन्ति भगवन्तम् / अतः सेवावसरं प्रतिपालय क्षणमात्रम् / राजा-सम्यङ्गिरूपितममात्येन / नमदमरसहस्रमौलिमालापरिगलितैर्भुवि पारिजातपुष्पैः / अलिकुलमनवाप्तदिव्यगन्धग्रहणकुतूहलि कृष्यते समन्तात् // 16 // मन्त्री-अवसरोऽयमखिलसुरासुरगुरोः सरोरुहाकरसंवेशविद्यादेशिककलाशेखरस्य सेवनाय देवस्य / अत एव संभ्रान्तनन्दिकरघूर्णितवेत्रपात___ भीतापगत्वरगणव्रजवर्जितेन / एतेन कीर्णकुसुमेन पथा महेशं सेवस्व भक्तिमददुर्लभसंनिधानम् // 17 // (ततः प्रविशति यथानिर्दिष्टः परमेश्वर्या सह परमेश्वरः / ) परमेश्वर:-अयि गिरीन्द्रसुते, अनितरसाधारणया भक्त्या जीवस्य मामनुस्मरतः / सपदि मयास्य पुरस्तत्संनिहितं सपरिवारेण // 18 // देवी-देव, तुरिअं तुह आगमणं एव्व दंसेदि अणण्णतुल्ले भत्तिमत्तणम् / (क) (क) देव, त्वरितं तवागमनमेव दर्शयत्यनन्यतुल्यं भक्तिमत्त्वम् /