________________ काव्यमाला। विदूषकः-एसो सोएण पलवन्तो विअ दीसइ / (क) मत्री-शृणुमस्तर्हि प्रलापमेतस्य / विषूचीमत्सरावप्येनमनुवर्तेते / (ततः प्रविशति विषूचीमत्सराभ्यां सहितो यक्ष्मा / ) यक्ष्मा-हन्त कथं तादृशानामपि मत्सैन्यानामीदृशीयं दुरवस्था / आश्चर्यमाश्चर्यम् / जीवस्य ध्वजिनीचरानतिबलाशक्नोति कः शासितुं दुवीरैयुधि पातितानि मम यैः सर्वाणि सैन्यानि च / पाण्डुर्मे सचिवः परैरवधि वा भीतः पलायिष्ट वा नो जाने मम जीवतो बत हताः पुत्रास्तथा बान्धवाः // 91 // (सशोकावेगम् / ) भो भोः सुताः क्व नु गताः स्थ विना भवद्भि___ीर्णाटवीव जगती परिदृश्यते मे / आक्रम्यते च तमसा हरिदन्तरालं शोकाग्निसंवलितमुत्तपते वपुश्च // 92 // (इति मूर्छति / ) मत्सरः-समाश्वसिहि समाश्वसिहि / यक्ष्मा-(समाश्वस्य।) वत्सा हे वदनाम्बुजानि मुदितो द्रक्ष्यामि केषामहं केषां माक्षिकमाक्षिपन्ति वचनान्याकर्णयिष्ये मुदा / मानां तनुषु प्रविष्टमचिरान्मां वर्धयिष्यन्ति के यूयं यत्समरे परैरतिबलैर्नामावशेषीकृताः // 93 // काल: पुत्रप्रविलयाद्दुःखं न सोढुं शक्यते जनैः / वसिष्ठोऽपि महान्येन ववाञ्छ पतनं भृगोः // 94 // तदिमं पुत्रशोकसंतप्तं यक्ष्माणमवेक्षितुं न शक्नोमि / (क) एष शोकेन प्रलपन्निव दृश्यते /