________________ जीवानन्दनम् / विदूषकः-देव, अचेतणा वि एदे चिन्तामणिपहुदिणो संपदं संप. हारं कुणन्ति त्ति अच्चरिअम् / ता इन्दजालं विअ एदं मे पडिभादि / (क) राजा-धिङ्मूर्ख, अनभिज्ञोऽसि शास्त्रतत्त्वस्य / अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः / अभिमानिदेवताश्चैषां सचेतनाः श्रूयन्ते / (कर्ण दत्त्वा / ) मन्त्रिन् , कोऽयं कलकलाविर्भावः / मत्री-पश्यतु देवः / शस्त्राशस्त्रि गदागदि प्रथमतो निर्वर्तिते संयुगे मुष्टीमुष्टि तलातलि प्रववृते पश्चादिदं भीषणम् / जित्वारीनिह देव तावकभेटैरापूर्यते काहला शङ्खः संप्रति शब्द्यते दृढतरं संताज्यते दुन्दुभिः // 88 // अपि च / आस्फालयन्ति दृढमूरुयुगं करात्रैः कुर्वन्ति कुण्ठितघनारवमन्दहासम् / जीवोऽयमस्सदधिपो जितवानमित्रा नित्युद्धतं युधि भटास्तव पर्यटन्ति // 89 // विदूषकः-कहं एत्थ एव भग्गमणोरहदाए परुण्णो विअ जक्खराओ लक्खीअदि / (ख) राजा-वयस्य, सम्यनिरूपितं भवता / गण्डस्थलप्रसमराश्रु करं करेण . निष्पीडयन्कटकटाकृतदन्तपङ्क्तिः / . .. यक्ष्मा ललाटघटितभ्रुकुटिः किलाय __ मन्तःस्पृशं रुषमभीक्ष्णमभिव्यनक्ति // 90 // मत्री-न केवलां रुषं शुचं च / (क) देव, अचेतना अप्येते चिन्तामणिप्रभृतयः सांप्रतं संप्रहारं कुर्वन्तीत्याश्चर्यम् / तदिन्द्रजालमिवैतन्मे प्रतिभाति / .. (ख) कथमत्रैव भग्नमनोरथतया प्ररुदित इव यक्ष्मराजो लक्ष्यते / .