________________ काव्यमाला। एवं स्थिते किमन्यद्रवीमि / गात्रं मे परितप्यते पदयुगं शक्नोति न स्पन्दितुं स्तब्धं चोरुयुगं भुजौ च भजतः कम्पं मुखं शुष्यति / नास्त्यक्ष्णोर्विषयग्रहः श्रवणयोरप्येवमेव त्वचो ऽप्यन्यत्कि चलतीव हृन्निजपदादाशा भ्रमन्तीव च // 69 // अपि च / ननु मे दुःखभागात्मा न धैर्यमवलम्बते / / काठिन्यमिव मृत्पिण्डो घनवारिसमुक्षितः // 70 // किं च मया भवत्संविहितरसगन्धकौषधघटितरसायनप्रत्याशया .. त्वदुपदेशवशंवदचेतसा वपुषि नश्वरके ममता वृथा / विधता शिवभक्तिरसायनं शिवशिवान्तरितं परमार्थदम् // 71 // मत्री-सत्यमेतच्छिवभक्तिरसायनं परमार्थदमिति सकलैहिकसंकटविघटनं च / किं तु पुराभिमानो न वृथा तद्दार्थेन विना कथम् / चित्तस्वास्थ्यं विना तच्च शिवभक्तिदृढा कथम् // 72 // अतो विज्ञापयामि / कृच्छ्रेऽपि धैर्यग्रहणं राज्ञो विजयसाधनम् / इति नीतिविदः प्राहुधैर्यमालम्ब्यतां ततः // 73 // किं च तव निदर्शयामि तादृशमितिहासम् / यथा / श्रेयः प्रापदगस्तिना स नहुषः शप्तोऽपि धैर्यग्रहा न्नन्वालम्ब्य वृति शुभं नलहरिश्चन्द्रावपि प्रापतुः / कृत्वा छद्मकृतेऽरिणा प्रणयिनीचौर्येऽपि धैर्य वह न्बद्धा सेतुमुदन्वदम्भसि न किं रामो विजिग्ये रिपून् // 74 // विदूषकः-वअस्स, सुदं किं दाणि वि एदस्स मन्तिणो एदं एव्व वअ