________________ काव्यमाला। ___ कर्म-एवमेतत् / अपि चानेनाविष्टः / . यद्भक्ष्यमम्लकटुतिक्तमपेक्षते त न्न स्वादु खादति च सूक्षयते हितोक्तम् / / जवां विवेष्टयति हुंकृतिमादधाति बालेषु न वचन दर्शयते रुचि च // 13 // विदूषकः-दिट्ठी वि ण पहुवदि णं पेक्खिदुं / (क) मत्री-एष ज्वरोऽपि यक्ष्मराजसखः / क्रोधनारोचकाध्मानैत्रिभिः पुत्रैरुपैधते / भार्यया पञ्चविधया ग्रहण्यभिधया सह // 64 // विदषकः-(अन्यतो विलोक्य सभयकम्पम् / ) वअस्स, अहं दाणि ण जीविस्सं, जदो खु करगहिदखग्गखेडअसरकम्मुअपरिघसूलगदा पञ्चत्थिराअसेणा अभिवडुइ साअरो विअ / (ख) . __ मत्री-(विलोक्य / ) एते व्रणराजपुत्रा अष्टविधा भगंदराः / एते च षड्धिा मूलाधिष्ठानमभिव्याप्नुवन्ति / एते च कफसंभवा दश मेहाः पित्तसंभवैः षद्भिर्वातसंभवैश्चतुर्भिश्च सह विंशतिसंख्याका यक्ष्मराजपुत्राः / अपरत्र च त्रयोदश मूत्रघाताः प्रसज्जन्ते / एतान्यपि च वातपित्तकफसंनिपातभुक्तविटधात्वश्मरीकृच्छ्राणीत्यष्टौ कृच्छ्राणि चतसृभिरश्मरीभिः सह सजीभवन्ति / एष गुल्मोऽपि शूलमवलम्ब्य विजृम्भते तथाष्टविधशूलाश्च निरुन्धन्ति / काल:-कर्मन, समर्थोऽयं मन्त्री रोगविशेषपरिज्ञाने / मन्त्री तथान्येऽप्यत्र बहवः प्रभवन्ति / ये किल मन्दाग्न्युत्थोदरस्थामयसुहृद उदावर्तभेदा अशीति तोत्थाः पित्तजा विंशतियुगगणिता विंशतिः श्लेष्मजाश्च / (क) दृष्टिरपि न प्रभवत्येनं प्रेक्षितुम् / (ख) वयस्य, अहमिदानीं न जीविष्ये, यतः खलु करगृहीतखड्गखेटकशरकार्मुकपरिघशूलगदा प्रत्यर्थिराजसेनाभिवर्धते सागर इव /