________________ .86 काव्यमाला / दयः प्रहर्तारः / तथा मांसपुत्राणां शाखोटकतैलप्रभृतयः / मेदसः पुत्राणां कफकेसरिप्रभृतयः / __ काल:-कर्मन् , एवं वातपित्तकफेषु वात एको रसरक्तमांसादिधातूनां शोषकः पोषकश्च / __ कर्म-एवमेवैतत् / धातूनां प्रकोपे धातुकार्ये च भिषजो वदन्ति 'कटुकादयो मांसवृद्धिहेतवः' इति / 'कटुकाद्वर्धते मांसं कषायाच्छोणितो रसः। . . लवणाद्वर्धते ह्यस्थि मज्जा त्वम्लात्प्रवर्धते / मधुराद्वर्धते शुक्र तिक्तान्मेदः प्रवर्धते // ' विदूषकः-(परिवृत्यावलोकितकेन / ) अन्ज एदं होदु जुज्झदसणम् / पेक्खदु भवं पुरद्विदं अच्चरिअं / (क) राजा-आर्य, किमेतत्पश्यसि / मत्री-(विहस्य / ) पश्याम्येतत् / एतत्पङ्गुद्वितयमनिलश्चारयत्याशयेषु त्रिष्वश्रान्तं जरठगणिका काचिदेषा पुरस्तात् / आजान्वग्रप्रविततकुचा लोभयन्ती प्रसूते हन्तानाङ्कुरमनुगता सर्वदा देहभाजाम् // 11 // कालः–सम्यगुक्तं मन्त्रिणा यत्पित्तकफी पङ्ग इति भिषक्प्रसिद्धिः / आशयेष्विति कफपित्तवातानामाशया विवक्षिताः / अपथ्यता जरठगणिकेति निरूपयन्ति / अनर्थाङ्कुर इति च तत्प्रभवरोगसमुदायम् / कर्म-साधु निरूपितम् / राजा-किमिदमप्यरिभिरेवं कृतम् / मन्त्री-कः संदेहः / श्रूयताम् / पाण्डुः स्वस्य निशम्य मत्सरमुखात्तूलायितं विक्रम सेयो मामकवाचिकेन हृदये राज्ञा निषिद्धोऽपि सन् / (क) अद्यैतद्भवतु युद्धदर्शनम् / पश्यतु भवान्पुरःस्थितमाश्चर्यम् /