________________ / समयः] समयमातृका। 57 वेश्यालताः सरागं पूर्व तदनु प्रलीनतनुरागम् / पश्चादपगतरागं पल्लवमिव दर्शयन्ति निजचरितम् // 126 // इति समयमातृकायाः कङ्काल्या बुद्धिसंविभागेन / भुक्त्वा वणिजः सकलं कलावती पूर्णविभवाभूत् // 127 // इति बहुभिरुपायैः कुटनी कामुकानां कृतसुकृतविहीना वञ्चनां सा कृतघ्ना (?) / वनभुवि मृगबन्धं हन्त पश्यन्ति नित्यं तदपि हरिणशावाः कूटपाशं विशन्ति // 128 // समयेन मातृका सा कृत्रिमरूपा कृता कलावत्या / तन्नानैव निबन्धः क्षेमेन्द्रेण प्रबद्दोऽयम् // 129 // इति श्रीक्षेमेन्द्रकृतायां समयमातृकायां कामुकप्राप्तिर्नामाष्टमः समयः / सालंकारतया विभक्तिरुचिरच्छाया विशेषाश्रया वक्रा सादरचर्बणा रसवती मुग्धार्थलब्धा परम् / आश्चर्योचितवर्णनानवनवास्वादप्रमोदार्चिता वेश्या सत्कविभारतीव हरंति प्रौढा कलाशालिनी // 1 // संवत्सरे पञ्चविंशे पौषशुक्लादिवासरे / श्रीमतां भूतिरक्षायै रचितोऽयं स्मितोत्सवः // 2 // अद्रिच्छिद्रावेनिद्ररौद्रफणिनामत्रास्ति कालं कुलं मत्तास्तत्र वसन्ति दन्तिपतयः सिंहाश्रयेयं गुहा / 1. तद्देशप्रसिद्ध लौकिकाब्दे. अर्थात् 1050 मिते ख्रिस्ताब्दे क्षेमेन्द्रेण समयमातृका प्रणीता. गतकलिवर्षेषु पञ्चविंशतिरहितेषु शतभक्तेषु यदवशिष्यते, स एव लौकिकाब्दः, तस्यैव सप्तर्षिसंवत्सरशस्त्र संवत्सरादिनाना काश्मीरादिपु पर्वतदेशेषु व्यवहारः. राजतरङ्गिणीकर्तापि प्रायो लौकिकाब्देन व्यवहरति. 'कलेर्गतैः सायकनेत्रवर्षेः सप्तषिवास्त्रिदिवं प्रयाताः / लोके हि संवत्सरपत्रिकायां सप्तर्षिमानं प्रवदन्ति सन्तः // ' इति कस्यचित्पद्यम्. पञ्चविंशतिरहितः कलिगताब्दगणः सप्तर्षिसंवत्सरो भवति, तत्र शतसं. ख्यया भजनं तु केवलमङ्कसंकोचामिति ज्ञेयम् .