________________ 7 समयः] समयमातृका। धन्योऽयं बालकः श्रीमान्भवद्भिर्यस्य संगतिः / .युष्मत्परिचयः पुण्यपरिपाकेन लभ्यते // 26 // शिशुरप्ययमस्माकं कामुकोऽभिमतः परम् / बाल एव सहस्रांशुः कमलिन्या विकासलत् // 27 // इत्यादिभिः स्तुतिपदैः कुटन्या विटमण्डले / स्वीकृते भूरभूत्क्षिप्रं ताम्बूलावेलपाटला // 28 // ततः काली कलावत्या धात्री वेतालिकाभिधा / ताम्बूलदानावसरप्रहर्षाकुलितावदत् // 29 // अत्यल्पः परिवारोऽयं ताम्बूलप्रणयी स्थितः / नास्माकमन्यवेश्यानामिवासंख्यः परिग्रहः // 30 // कङ्गः प्रथमपूज्योऽयं देवाकृतिरुदारधीः / यस्यानुरोधात्सुलभा दुर्लभापि कलावती // 31 // जामाता गौरवार्थोऽयं पूज्यः कन्यार्पणेन नः / शाङ्खिकः कमलो नाम संमानं पूर्वमर्हति // 32 // अयं पितुः कलावत्याः प्रेतकार्यप्रतिग्रही। ह्यः पर्वदिवसावाप्त...."शक्तिर्महाव्रती // 33 // अयं स्थलपतेः सूनुः कपिलः कलशाभिधः / / गुरुभ्राता कलावत्याः कल्पपालो मधुप्रदः // 34 // मृदङ्गोदरनामायं कलावत्याः स्वसुः पतिः / मातुलः कलहो नाम बिन्दुलारः सहोदरः // 35 // इयं दत्तकपुत्रस्य कलावत्याः कलायुषः / धात्री कलावती नाम रुग्णचन्द्रश्च तत्पतिः // 36 // अयं भरतभाषाज्ञः काम्बो भागवतात्मजः / गायनः खरदासोऽयं महामात्यस्य वल्लभः // 37 // निगिलः सूपकाराख्यः कुम्भकारश्च कर्परः / बकश्छत्रधरश्चायं खञ्जनो युग्यवाहनः // 38 //