________________ . 42 काव्यमाला / मेषाणां चण्डमुण्डाहरणकटकटारावपिष्टास्थिसंस्था सिद्धा शुष्कातिपूर्णा जयति भगवती कुट्टनी चण्डघण्टा // 30 // एष स्फीतधनस्य लोभवसतेः पापस्य मूर्तिस्ष्टशः शङ्खाख्यस्य महार्षहद्दवणिजः पङ्काभिधानः सुतः / आकृष्टः प्रतिवेश्मनिर्गतविटैः सारङ्गमुग्धः शिशुः सुभ्र त्वां तुषराशिलोलचटकाकारः समुद्रीक्षते // 31 // एष निधिविधिना तव नूनं मेषमतिविहितः प्रहितो वा। .. स्थूलमुखः पृथुचूलकलापः स्कन्धयुगाञ्चितकर्णसुवर्णः // 32 // इत्यादि कथेन वितळमाणं वणिक्सुतं दृक्पतितं विचार्य / मनोरथाभ्यर्थितलाभतुष्टा कङ्कालिका सस्मितमित्युवाच // 33 // निर्यत्ताम्बूललालालवशबलवलदीववक्रावलोकी रक्तोपानागोद्यत्सरसरमुखरप्रस्खलत्पादचारैः / एवंरूपोऽतिमुग्धः शिशुरखिलधनावाप्तये बन्धकीना मक्लेशाराधनार्हः स्वयमुपनमति प्रायशः पण्यपुण्यैः // 34 // कलावति त्वन्मुखनिश्चलोऽयं महाविटश्चारणचक्रचारैः / निवेदितोऽग्रे तव देवतायाः शिशुः पशुर्भोगविभूतिकामैः // 35 // पार्श्व त्वमेषां व्रज कङ्क तूर्णं दूतं करिष्यन्ति भवन्तमेते / तयेति दत्तोचितशासनोऽसौ जगाम सौधादवरुह्य हृष्टः // 36 // इति श्रीक्षेमेन्द्रविरचितायां समयमातकायां षष्टः समयः / सप्तमः समयः। अथाययौ शनैः श्रीमान्नवोद्भूतमनोभवः / लतालिङ्गनकद्वालः कालः कुसुमलाञ्छनः // 1 // संभोगसुखसंपत्तिः पराधीनेव कामिनाम् / आललम्बे धनेशाशामितीवाकलयन्रविः // 2 // 1. 'चर्ममुण्ड' इति पाठः. 2. 'निर्गुट' इति पाठः.