________________ काव्यमाला। तस्माच्च पुत्रार्थमनोरथा स्यात्प्राणात्ययं तद्विरहे वदेच्च / इत्यादिभिः स्वीकरणाद्युपायैर्निबद्धबुद्धेर्द्रविणं लभेत // 74 // तावच्च तूर्ण धनमाहरेत यावत्स रागेण विनष्टसंज्ञः / प्रशान्तरागानलशीतलस्तु स लोहपिण्डीकठिनत्वमेति // 79 // याचेत सर्व सुरतालिकाले तमूरुबन्धेन निरुद्धकायम् / प्रायेण तृप्ताय न रोचते हि विनम्रशाखापरिपक्वमाम्रम् // 76 // संधारयेत्तं च विशेषवित्तं यावन्न निःशेषधनत्वमेति / / पुनः पुनः स्नेहलवावक्त्रा दीपं यथा दीपकदीपवर्तिः // 77 // निष्पीतसारं विरतोपकारं क्षुण्णेक्षुशल्कप्रतिमं त्यजेत्तम् / लब्धाधिवासक्षयकारिशुष्कं पुष्पं त्यजत्येव हि केशपाशः // 78 // हेमन्तमार्जार इवातिलीनः स चेन्न निर्याति निरस्यमानः / तदेष कार्यस्तनुमर्मभेदी प्रवर्धमानः परुषोपचारः // 79 // शय्यावहारैर्वचनप्रहारैः कोपप्रकारैर्जननीविकारैः। कौटिल्यसारैविविधापसारैर्विपद्विचारैगणितापचारैः // 10 // याच्ाविवादैरधनापवादैर्दत्तानुवादैः परसाधुवादैः। निन्दाजवादैः परुषप्रवादैविटप्रवादैः कथितावसादैः // 81 // मुहुः प्रवासैः कलहोपवासैर्मायानिवासैः कटुकाधिवासैः / सभ्रूविलासैर्व्यसनीपवासैनिष्कासनीयः स एथुप्रवासैः // 82 // स चेत्पुना रागजतुप्रसक्तस्तीबावमानैरपि न प्रयाति / तदा तमुत्क्षिप्तभुजान्यवना दासी वदेद्वित्तवियोगदीनम् // 83 // यत्राभवत्कामुकलोकयात्रा विचित्ररूपा सततं विभूतिः / गृहे चतुर्थ दिनमद्य तस्मिन्दृष्टस्य दृष्टस्य वधूत्सवस्य // 84 // क्लीबस्य यस्यास्ति न भोगसंपत्स किं भुजिप्याभवने करोति / न यस्य हस्ते तरमूल्यमस्ति स किं समारोहति नावमग्रे // 85 // प्रक्षीणवित्तेन निरुद्यमेन किं रूपयुक्तेन करोति वेश्या / . विच्छिन्नदुग्धा न पुनः सगी सा कस्य गौश्चारुतयोपयुक्ता // 86 //