________________ 5 समयः] . समयमातृका / सुहृद्भिरेव जानाति कामुकानां धनं गुणम् / हृदयग्रहणोपायं शीलं रक्तापरक्तताम् // 61 // महाधनस्य सुहृदां कामिनां प्रेमशालिनाम् / प्रच्छन्नसुरतेनापि कुर्यादाराधनं सदा // 62 // एको वित्तवतः सूनुः पितृहीनः सुयौवने / मुग्धे भूभुजि कायस्थः कामिस्पर्धी वणिक्सुतः // 63 // नित्यातुरामात्यवैद्यप्रसिद्धस्य गुरोः सुतः / ............."प्रच्छन्नकामो जाड्य धनः // 64 // नपुंसकप्रवादस्य प्रशमार्थी फलाशनः / मत्तो धूर्तसहायश्च राजसूनुर्निरङ्कुशः // 15 // ग्राम्यो धातृद्विजसुतः प्राप्तलाभश्च गायनः / सद्यः सार्थपतिः प्राप्तः श्रीमान्दैवपरायणः // 66 // गतानुगतिको मूर्खः शास्त्रोन्मादश्च पण्डितः / नित्यक्षीबश्च वेश्यानां जङ्गमाः कल्पपादपाः // 67 // प्रथमं प्रार्थिता वेश्या न क्षणोऽस्तीत्युदाहरेत् / जनस्यायं स्वभावो हि सुलभामवमन्यते // 68 // शिरःशूलादिकं व्याधिमनित्यमजुगुप्सितम् / ... अवहारोपयोगाय पूर्वमेव समादिशेत् // 69 // पत्नीव कुर्यादनुवृत्तिपूर्व पूर्व महार्थस्य वरोपचारम् / द्रव्यैस्त्वया मन्त्रजपादिभिर्वा वशीलतास्मीति वदेच सर्वम् // 70 // स्वयं प्रदत्तेऽपि नखक्षते च शङ्केत तद्भक्तिविवादशीलम् / निन्देत्प्रकामं जननी विरुद्धां गच्छेत्स्वयं वेश्म च कामुकस्य // 71 // विदेशयात्रामपि मन्त्रयेत तेनैव सार्धं विहितानुबन्धा / सुप्तस्य कुर्यात्परिचुम्बनं च गुणस्तुतिं चार्धविबोधभाजः // 72 // स्वप्ने सदैव प्रलपेत्सरागं सर्वं च तन्नामनिबद्धमेव / न चास्य तृप्ति सुरतेषु गच्छेद्वययस्य कुर्याञ्च मुहुनिषेधम् // 73 // 1. 'जटाधरः' इति पाठः.