________________ 726 काव्यमाला। . स्तावेव समाधिर्यथा / ... 'कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं प्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निस्यन्दतामागता / मदृष्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ / साकाझं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने // 488 // ' अत्र वत्सराजेन खदृष्टौ प्राणिधर्माः समाधीयमानाः सागरिकादर्शनोत्थरतिवागारम्भे न्यग्भवन्ति // रतावेवार्थश्लेषस्य यथा'कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतयोऽधररसः / मुहुर्लग्नः कण्ठे तरलयति बाष्पः स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् // 489 // अत्र यद्यप्याक्षेपेण वाक्योपसंहारस्तथापि प्रिय इत्यादिभिः प्राधान्येनाभिधीयमानः श्लेष एव शृङ्गारिणो वागारम्भानुभावाङ्गतामङ्गीकरोति॥ रतावेव पर्यायोक्तेर्यथा'मुक्ताः कन्धरया धृता स्तनतटेनोत्तुङ्गता कुम्भयो रूरुभ्यां परिणाहिता क्रमवती हस्तस्य पन्यां गतिः। . एतद्वः करिघातिनस्तु कठिनं चर्मैव कोऽयं हठ- श्चण्डीति त्रिपुरारिकेलिवचनैसस्मितं पातु वः // 490 // ' - अत्र भगवतश्चाटूक्तिवागारम्भे देव्याः पर्यायवर्णना शेषभावं लभते 1. 'निष्पन्दताम्' क.ख. 2. 'जलभरप्रस्यन्दिनी' क.ख, 3. 'दर्शनार्थे' क.ख. 4. 'रति-' क.ख. 5. 'निश्वासैः' क.ख.ग.. 6. 'बाष्पस्तनतटी' क., 'वाष्पस्तननहीं' ग. 7. 'अनुभावाङ्गत्वं' क. 8. 'वृताः' क., 'धृताः' ख. 9. 'आर्यान्वितं' क. 10. श्लेषभावं' क.ख.