________________ 725 5 परिच्छेदः।] सरस्वतीकण्ठाभरणम् / अत्रोपमातिरस्कारेण रसवतो हरेर्वचसि वागारम्भरूपे रुक्मिणीप्रदत्तपारिजातमञ्जरीविलोकनप्रभवं सत्यभामाया रोषरामणीयकं प्राधान्यतः प्रतीयते // रतावेव विपरीतोपमा यथा- 'यत्त्वन्नेत्रसमानकान्ति सलिले मनं तदिन्दीवरं मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी / येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते // 48 // ' अत्र विरहिणो रामस्य प्रियावयवसादृश्यदर्शनेनात्मानं विनोदयत उपाय_शादरतिभवविषादवागारम्भे खरूपाभिधाने प्रक्षीणशक्तिरप्राधान्येनोपमा प्रतीयते // रतावेव पर्यायस्य यथा 'किं गुरुजहणं अह थणभरो त्ति भाअकरअलग्गतुलिआएं। .. विहिणो ख़ुत्तंगुलिमग्गविभमं वहइ से तिवली // 487 // . [किं गुरुजघनमथ स्तनभर इति भागकरतलाग्रतुलितायाः। विधेः खाताङ्गुलिमार्गविभ्रमं वहत्यसास्त्रिवली // ] 'अत्र यद्यपि रतिप्रभवेभ्यो विस्मयादिभ्यः संशयहेतूत्प्रेक्षोपमादिभ्यश्च पर्यायालंकारः प्राधान्येन प्रतीयते तथाप्यसौ वागारम्भानुभाव इति रतावप्राधान्यमेवानुभवति // . - 1. 'एव' ख. 2. 'मुखच्छायानुकारः' क.ख. 3. 'यो' ख. 4. 'त्वद्गमना. * नुसारिगतयः' घ. 5. 'उपायभ्रंशारतिप्रम' क... 6. 'विपर्ययो' क. 7. 'अह थण' क.ख..८. 'भावअकरअ' क. 9. 'तूलिआए' ख. 10. 'खत्तंगुलि क. 11. 'यगा विम्भम' क., 'थणचिन्भमं' ख. .12. 'स' क. 13. 'उपमाभ्यः' क. 24. रतावप्यप्राधान्यम्' क.ख.