________________ 5 परिच्छेदः / सरखतीकण्ठाभरणम् / 723 अत्र स्वादुकरमसृणक्लैब्यमित्यन्यधर्माणामन्यत्रारोपणं समाधिः, अमिनववधूरोषादीनां चतुर्णामप्यर्थानां खाद्वादीनां च लक्षणादिलक्षितानां प्राकट्यं प्रसादः, अभिनववधूरोपखादुः करीषतनूनपात् इति विशेषणविशेष्याणामुपक्रमेण निर्वहणं रीतिः, पादचतुष्टये चतुर्णामर्थानां विमक्त्यसमत्वेन निवेशः संमितत्वमिति चत्वारो गुणाः, चत्वारश्च रत्यमपविषादजुगुप्सात्मानो रसाः कालावस्थानिवेदनपरत्वेन प्रतीयन्त इत्युभयाप्रवानः // गुणाधिको यथा'अजननिरस्तु विभूतेरपूरणिर्भवतु सर्वकामानाम् / मा याचिषि मा सेविषि मा सहिषि पराभवं धनिनः / / 183 / ' अत्र सुप्तिब्युत्पत्तिः सौशब्द्यम्, वाक्यानां परिपूर्णत्वमर्थव्यक्तिः, अर्थस्य प्राकट्यं प्रसादः, विभूतेरनुत्पत्तौ कामा न पूर्यन्ते, अपरिपूर्णकामो याचते, याचमानस्तदनाप्नुवन् धनिनः सेवते, सेवमानस्तु तैः परिभूयत इत्युत्पत्त्यादिक्रियाक्रमो रीतिरिति गुणाश्चत्वारः, रसस्तु निर्वेद एवैक इति गुणाधिकः॥ .. रसाधिको यथा• “कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् / - सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् // 484 // अत्र कमलमनम्भसि कमले कुवलयमेतानि कनकलतिकायाम् इ. त्यन्यधर्माणामन्यत्रारोपणं समाधिः, सा च सुकुमारसुभगेत्युत्पातपरम्परा केयमित्यश्लीलामङ्गलार्थो दोषगुणावपि, श्लाघ्यविशेषणगुणयोग उदात्त१. 'वछैन्य' ख. 2. 'निबर्हणम्' ख. 3. 'व्युत्पत्तिसौशब्द्यम्' ख...