________________ 722 काव्यमाला / अवार्थप्राकट्यौदार्ययोरर्थशब्दमुणयोः प्राधान्यं न रतिक्रोधयोरिति गुणप्रधानः // रसप्रधानो यथा'अस्मिन्नगृह्यत पिनाकभृता सलील मारब्धवेपथुरधीरविलोचनायाः / विन्यस्तमङ्गलमहौषधिरीश्वरायाः __सस्तोरगप्रतिसरेण करेण पाणिः // 480 // . अत्र श्लाघ्यविशेषणयोग उदात्तत्वम् , बन्धविकटत्वमुदारता, अर्थप्राकट्यं प्रसादः, दीप्तरसत्वं कान्तिरिति गुणाः साध्वसविलासानुरागसं. गमरसैरतिशय्यन्त इति रसप्रधानः // उभयप्रधानो यथा'आपातमात्ररसिके सरसीरुहस्य - किं बीजमर्पयितुमिच्छसि वापिकायाम् / कालः कलिर्जगदिदं न कृतज्ञमज्ञे स्थित्वा हरिष्यति तवैव मुखस्य शोभाम् // 481 // अत्र भणितिविशेष उक्तिः संविधाने सुसूत्रता श्लेष इति शब्दगुणयोर्लावण्यविलासवर्णनीयरसयोश्च तुल्यकक्षतया निर्देशै इत्युभयप्रधानः॥ उभयाप्रधानो यथा 'अभिनववधूरोषखादुः करीषतनूनपा___ दसरलजनाश्लेषक्रूरस्तुषारसमीरणः / गलितविभवस्याज्ञेवाद्य धुतिर्मसृणा रवे विरहिवनितावनक्लैब्यं बिभर्ति निशाकरः // 182 // 1. 'प्राधान्यं न रतिक्रोधयोः' ग. नास्ति. 2. 'न भवति क्रोधयोः' ख. 3. 'स्वसत्रता' ख. 4. 'निर्दिशत्युभयप्रधानः' क. 5. 'आज्ञेवाथ' ग. . . वराहपागा -