________________ 720 काव्यमाला / लवस्य विस्मयातिशयप्रशमजन्मनि वागारम्भानुभावोपमापदे चित्रवर्णवसंकीर्यमाणाः समुपलभ्यन्ते // अथ रसगुणसंकरः। ... ननु च दोषहानमिव गुणोपादानमपि नियमनिर्वयम् / अलंकारयोग इव रसावियोगोऽप्यवश्यं विधेयः / कदाचिदलंकारयोगोऽपि त्यज्यते न तु रसावियोगो गुणयोगश्च व्यभिचरितसंबन्धाविति / अत्रोच्यते / यत्र चित्रवर्णवन्नरसिंहवत्पांसूदकवचावयवावयविन्यायेन जातिव्यक्तिन्यायेन चौपृथक्प्रयत्ननिर्वानां गुणरसानां वाक्ये संनिवेशस्तत्र संकरव्यवहारो न प्रवर्तते // तद् यथामधुरं रसवद्वाचि वस्तुन्यपि रसस्थितिः / येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः // कामं सर्वोऽप्यलंकारो रसमर्थे निषिञ्चति / तथाप्यग्राम्यतैवैनं भारं वहति भूयसा / / शृङ्गार एवं मधुरः परप्रह्लादनो रसः / तन्मयं काव्यमाश्रित्य माधुर्यं प्रतितिष्ठति / / शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् / माधुर्यमार्द्रतां याति यतस्तत्राधिकं मनः / / 1. 'वागारम्भानुभावोपमाद्भवेदेतचित्रवर्णवत्' क., 'वागारम्भानुभावोपमोद्भवेचित्रवर्णवत्' ख. 2. 'अथ कोऽयं गुणसंकरः' क. 3. 'ननु दोषहानिरिव' ख., 'दोषहानि नमिव' च घ. 4. 'नियमनिवर्त्यम्' क. 5 'ननु रसादिव्यभिचरितसंबन्धाविति' क.ग. पुस्तके च 'नतु' इत्यस्य स्थाने 'ननु' इति वर्तते. 6. 'वर्णवत्' ग. 7. पां. , शूदकवच्च' ग. 8. 'वापृथक्' क. 9. 'प्रयत्नानिर्वानां' -क. 10. 'सर्वेषु' क. 11. 'परः प्रह्लादनो रसः' इति ध्वन्यालोके (218).