________________ 5 परिच्छेदः / ] सरखतीकण्ठाभरणम् / तद् यथा-- 'एक इह जीवलोके जीवतिरूपं नृरूपपशुरूपः। ____ यः प्रेमपाशपार्शे मुंग इव न मृगीदृशां पतति // 476 // " पांसूदकप्रकारो यथा''मा गर्वमुद्वह कपोलतले चकास्ति कान्तवहस्तलिखिता मम मञ्जरीति / अन्यापि किं न सखि भाजनमीदृशानां वैरी न चेद्भवति वेपथुरन्तरायः // 477 // अत्र स्वसौभाग्यवर्णना मृत्पिण्डे पांसूदकयोरिवाविभागमापाद्यमानयोरसूयागर्वयोः संकर उपलभ्यते // - चित्रवर्णप्रकारो यथा-. 'विरोधो विश्रान्तः प्रसरति रसो निर्वृतिघन___ स्तदौद्धत्यं वापि व्रजति विनयः प्रह्वयति माम् / झटित्यस्मिन्दृष्टे किमपि परवानस्मि यदि वा .. ___ महाघस्तीर्थानामि हि महतां कोऽप्यतिशयः // 478 // ' अत्र वीरौद्धत्यस्खातब्यरसानामानन्दप्रशमपारवश्यरसैस्तिरस्क्रियमाणानां पट इव नीलादिभिः सीतादीनां प्रशमा रामदर्शनप्रभावोद्भवे 1. 'नृरूपपशुरूपः' इति क. पाठचुटितः / 'न रूपमभ्युदये' इति ख. पाठः. 2. 'प्रेममात्रपाशे' क., “यः प्रेममाशयाशे' ख. 3. 'मृगवन्न मृगीदृशां' ख. 4. 'पांशूदकप्रकारों ' यथा' ग. 5. 'पांशूदकयोरिव' ग. 6. 'उपपद्यते' क.ख. 7. 'किमिह महता', क. 8. पटवर्णनीलोदिभिः' क., पटनीलादिभिः' ख. 9. 'सितादीनां' क.