________________ 5 परिच्छेदः / ] सरखतीकण्ठाभरणम् / 703 अर्थानुबन्धि अर्थोदकं यथा 'भूत्वा चिराय चतुरन्तैमहीसपत्नी . ___ दौष्यन्तिमप्रतिरथं तनयं प्रैसूय / भै; तदर्पितकुटुम्बभरेण साधू शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् // 452 // ' यत्पुनः काममेवानुबध्नाति तत्कामोदकं यथा'अद्वैतं सुखदुःखयोरनुगुणं सर्वाखवस्थासु य द्विसम्भो हृदयस्य यत्र जरसा यस्मिन्नहार्यों रसः / कालेनावरणात्ययात्परिणते यत्ले हँसारे स्थितं भेद्रं तस्य सुमानुषस्य कथमप्येकं हि यत्प्राप्यते // 453 // 'नानालंकारसंसृष्टेः प्रकाराश्च रसोक्तयः / ' इत्युक्तं तत्र 'अलंकारसंसृष्टेः' इतीयत्येव वक्तव्ये नानालंकारग्रहणं गुणरसानामुपसंग्रहार्थम् / तेषामपि हि काव्यशोभाकरत्वेनालंकारत्वात् // यदाह___ काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते / ते चाद्यापि विकल्प्यन्ते कस्ता-कार्येन वक्ष्यति // काश्चिन्मार्गविभागार्थमुक्ताः प्रागप्यलंक्रियाः / . साधारणमलंकारजीतमन्यत् प्रदर्श्यते // 1. सदिगन्तमहीसपत्नी' ख. 2. दौष्षन्तिम्' ख. 3. 'निवेश्य' इति मुद्रिते शाकुन्तले. 4. 'तत्संनिवेशितभरेण सहैव भ;' क.ख. 5. 'अनुगतं' इति मुद्रित उत्तररामचरिते. 6. 'विश्रामो' क.ख. मुद्रित उत्तररामचरिते च. 7. 'परिणतेर्यत्'ख.ग. 8; 'प्रेमसारे' इति मुद्रित उत्तररामचरिते. 9. 'भद्रे'घ. 'भद्र'(दे वा !)ग. 10. 'त. पार्थ्यते' क., मुद्रित उत्तररामचरिते च / 'यत्प्रार्थ्यते' ख. 11. 'प्रकाराश्च' घ. 12. 'इत्येव' क.ख. 13. 'नानालङ्कारग्रहण' ख. 14. 'अलङ्कारं जातमन्यत्' ख.