________________ 702 काव्यमाला। गूढव्यलीकमन्ताजं यथा'प्रत्यग्रोज्झितगोकुलस्य शयनादुत्स्वप्नमूढस्य मे सा गोत्रस्खलनादपैतु च दिवा राधेति भीरोरिति / रात्रावस्खपतो दिवा च विजने लक्ष्मीति चाभ्यस्यतो राधां प्रस्मरतः श्रियं रमयतः खेदो हरेः पातु वः 448' अगूढव्यलीकं बहिर्व्याजं यथा'चक्षुर्यस्य तवाननादपगतं नाभूत्कचिन्निवृतं येनैषा सततं त्वदेकशंयनं वक्षःस्थली कल्पिता / येनोक्तासि विना त्वया मम जगच्छून्यं क्षणाजायते सोऽयं दम्भधृतव्रतः प्रियतमः कर्तुं किमप्युद्यतः // 449 // ' अव्यैलीकं निर्व्याजं यथा'किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया निद्राच्छेदविवर्तनेष्वभिमुखी नाद्यापि संभावितो / अन्यस्त्रीजनसंकथालघुरहं खप्ने त्वया लक्षितो दोषं पश्यसि के प्रिये परिजनोपालम्भयोग्ये मयि // 450 // धर्मानुबन्धि धर्मोदकं यथा'अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्वा यूने सितातपवारणम् / मुनिवनतरुच्छायां देव्या तया सह शिश्रिये ___ गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् // 451 // " 1. 'नामेति चाभ्यस्यता राधां' क. 2. 'किमभ्युद्यतः' क.ख., 3. 'अव्य. लीकनिर्व्याजं यथा' क. 4. निद्रोच्छेदविवर्तनेषु' क.ख. . 5. 'संभाषिता' क.ख. 6. 'वीक्षितो' क.ख. 7. 'किम्' क.ख. 8. 'धर्मोदकं' घ...