________________ 678 काव्यमाला / अनुनायको यथा'स मारुतसुतानीतमहौषधिहृतव्यथः / लकास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः // 349 // कथाव्यापिनी नायिका यथा'तीए सविसेसदूनिअसवत्तिहिअआइं णिवलंतसिणेहं / पिअगरुइआइ णिमिअं सोहग्गगुणाण अग्गभूमीअ प॥३५०॥' तया सविशेषदूनितसपत्नीहृदयया निर्वय॑मानस्नेहम् / प्रियगुरूकृतया निर्मितं सौभाग्यगुणानामग्रभूम्यां पदम् // ]. प्रतिनायिका यथा'त तिअसकुसुमदामं हरिणा णिम्महिअसुरहिगंधामोअं। अप्पणइअंपि दूमिअपणइणिहिअएण रुप्पिणीअ विइणम् 351' [तत्रिदशकुसुमदाम हरिणा निर्गच्छत्सुरभिगन्धामोदम् / आत्मनानीतमपि दूनितप्रणयिनीहृदयेन रुक्मिण्यै वितीर्णम् // ] उपनायिका यथा- . 'देवीस्वीकृतमानसस्य नियतं खानायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथाम् / इत्थं यन्त्रणया कथं कथमपि क्षीणा निशा जाग्रतो दाक्षिण्योपहतेन सा प्रियतमा खप्नेऽपि नासादिता 352' अनुनायिका यथा- 'श्लाघ्यानां गुणिनां धुरि स्थितवति श्रेष्ठान्ववाये त्वयि प्रत्यस्तव्यसने महीयसि परं प्रीतोऽस्मि जामातरि / 1. स मारुतिसमानीत' इति मुद्रिते रघुवंशे. 2. 'णिन्वरणेन्तसिणेहं' क. 'णिव्वरणन्तसिणेतं' ख. 3. 'ज' ख. 4. 'दुम्मि' क. 5. 'पणइ पि' क.ख. 6. 'विअ. इण्णं' ग. 7. Dr.R.G.Bhandarkar संपादिते मालतीमाधवे तु श्रेष्ठान्वये च त्वयि' इति पाठः.