________________ 657 5 परिच्छेदः / सरखतीकण्ठाभरणम् / - अत्र दुष्यन्तेन शकुन्तलायाः प्रवासे विभूषणाद्यग्रहणं यदवगतं तत्तदनन्तरेऽप्यनुवर्तमानं प्रेमप्रकर्षाय भवति // तत्रैवे युवानः प्रियसंनिधौ न वसन्तीत्यर्थस्यान्वयो यथा'समर्थये यत्प्रथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा / अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभाविताप्रियः 290' अत्र पुरूरवाः प्रवासान्मत्त उर्वशीबुद्ध्या लतादिकं यादाससाद तत्तदानेकशोऽन्यथा बभूव / तत्संस्काराच्चायं यस्या लतारूपपरिवर्तन प्रत्येति सोऽयं प्रियासंनिधौ यूनामवासः संसिद्धस्तदनन्तरेऽप्यनुवर्तते / / अत्रैवोत्कण्ठादिभिश्वेतो वासयतीत्यर्थस्यान्वयो यथा। 'अब्बो दुक्करआरअ पुणो वि तत्तिं करेसि गमणस्स / अज वि ण होति सरला वेणीम तरंगिणो चिउरी 291' हि दुष्करकारक पुनरपि चिन्तां करोषि गमनस्य / अद्यापि न भवन्ति सरला वेण्यास्तरङ्गिणश्चिकुराः // ] अत्र प्रवासार्नुभूतभृशोत्कण्ठादिचित्तवासनाः प्रवासानन्तरेऽपि तस्या नोपशाम्यन्तीति वेणिकावर्णनादिना सूच्यते // अत्रैव प्रमापयतीत्यर्थस्यान्वयो यथा___ 'त्वद्वियोगोद्भवे चण्डि मया तमसि मज्जता / दिष्ट्या प्रत्युपलब्धासि चेतनेव गतासुना // 292 // 1. तदनन्तरे' क.ख. 2. 'अत्रैव' क.ख. 3. 'स्पर्शविभावितप्रियः' क.ख. मुद्रिते विक्रमोर्वशीये च. 4. 'यद्यदासादयति' क. 5. 'तत्तदनेकशो' क.ख. 6. 'तत्तत्संकारात्' क.ख. 7. 'अवासः प्रवासः' क.ख. 8. 'अब्बो' इति खेदे. 9. 'चिहुरा' क.ख.ग. 10. 'प्रवासोद्भूत' क.ख. 11. 'चित्तवासना' ख. 12. 'नो शाम्यतीति' क.ख. . ........ ....... .. 42 स. क.