________________ 5 परिच्छेदः।] सरखतीकण्ठाभरणम् / 647 प्रेम मिमीते यथा'कुविआ अ सच्चहामा समे वि बहुआण णवर माणक्खलणे। पाअडिअहिअअसारो, पेम्मासंघसरिसो पअट्टइ मण्णू // 263 // ' [कुपिता च सत्यभामा समेऽपि बन्धूनां केवलं मानस्खलने / प्रकटितहृदयसारः प्रेमाश्वाससदृशः प्रवर्तते मन्युः // ]' अत्र 'माङ् माने' इति धातोः 'कृत्यल्युटो बहुलम् 3 / 3 / 113' इति कर्तरि ल्युट् / 'कोऽसावनुमान' इति भाष्यप्रयोगात् / तेन च यद्यपि करणभूतेनैवात्मनि रुक्मिण्यां च प्रियप्रेम्णः परिमाणं सत्यभामा प्रत्याययति तथापि पूर्ववदिहाप्ययं पूर्ववत्कर्तृत्वेनोपचर्यते // प्रवासे वसत इत्युपलक्षणेनात्मानमङ्गना न भूषयन्ति यथा- 'साहीणे वि पिअअमे पत्ते वि खणे ण मण्डिओ अप्पा / दुक्खेिंअपउत्थवइअं सअर्जिअं संठवंतीए // 264 // स्वाधीनेऽपि प्रियतमे प्राप्तेऽपि क्षणे न मण्डित आत्मा / दुःखितप्रोषितपतिका प्रतिवेशिनी संस्थापयन्त्या // ] अत्र 'वस आच्छादने' इत्यस्य 'प्रस्मरति' इत्यादिवन्निषेधार्थकप्रपूर्वस्य घुञि प्रवास इति रूपं निरूप्यते // युवानः प्रियासंनिधौ न वसन्ति यथा'विरहाणलो सहिज्जइ आसाबंधेण वल्लहजणस्स / . एकग्गामपवासो माए मरणं विसेसेइ // 265 // विरहानलः सह्यत आशाबन्धेन वल्लभजनस्य / ....... एकग्रामप्रवासो मातर्मरणं विशेषयति // ] 1. 'ऊविआ' क. 2. 'सच्चहासा' क. 3. 'पूर्ववत्कर्तृत्वेनोपयुज्यते' ख. 4. 'ना, त्मानमङ्गना भूषयन्ति' ख. 5. 'दुग्गअपउत्थवइअं' गाथासप्त०, 'दुर्गतप्रोषितपतिकां', इति च्छाया च. 6. 'सअज्झिअं' गाथासप्त०. 7. 'घनि.च' क.ख. 8. प्रवास': ख. नास्ति.'९., 'दुल्लहजणेस्य क.ख.