________________ 5 परिच्छेदः। सरखतीकण्ठाभरणम् / करुणेन.यथा'न मर्त्यलोकस्त्रिदिवारमहीयते म्रियेत नागे यदि वल्लभो जनः / " निवृत्तमेव त्रिदिवप्रयोजन मृतः स चेज्जीव्रत एव जीवति 1955 तिर्यगादिषु चैतदाभासा भवन्ति / तेषु सरीसृपमृगयोर्यथा ____ 'मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां खामनुवर्तमानः / / शृङ्गेण संस्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णासारः 196' पशुपक्षिणोर्यथा'ददौ सरःपङ्कजरेणुर्गन्धि गनाथ गण्डूंषजलं करेणुः / अर्थोपभुक्तेन बिसेन जायां संमवियामास रथाङ्गनामा॥ 197 // किंनरेषु यथा'गीतान्तरेषु श्रमवारिलेशः किंचित्समुच्छासितपत्रलेखम् / पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किंपुरुषश्चचुम्बे // 198 // तरुषु यथा___'पर्याप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्ठेमनोहराभ्यः / लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि // 199 // ' विप्रलम्भचेष्टासु प्रथमानुरांगे स्त्रिया यथा... ''पेच्छइ अलद्धलक्खं दीहं णीसंसइ सुण्णों हसइ / जइ जंपइ अफुडत्थं तह से हिअअंढिअं कि वि // 200 // ' प्रेक्षतेऽलब्धलक्ष्व-दीर्घ निःश्वसिति शून्यं हसति / .......... . यथा जल्पत्यस्फुटार्थ तथास्या हृदयस्थितं किमपि // समुळेछासिनपत्रलेखम् घर प्रवालौष्ठमनोहराभ्याघ, 3, अलङ्क