________________ 5 परिच्छेदः। सरस्वतीकण्ठाभरणम् / मिथः समागमे प्रागुत्पन्नस्तदानींतनो वा रत्याख्यः स्थायिभावोऽभिलषणीयालिङ्गनादीनामवाप्तौ सत्यां समुपजायमानैहर्ष-धृति-स्मृति-मतिप्रभृ. तिभिर्व्यभिचारिभावैः संसृज्यमानः, ऋतूधानोपगमजलक्रीडापर्वतोपदेशप्रसाधनगृहमधुपानेन्दूदयादिभिरुद्दीपनविभावरुद्दीप्यमानः, सविनम. भूकटाक्षविक्षेपालापसंभ्रमस्मितादिभिरनुभावैरभिस्यज्यमान ईप्सितमासादगन् , जिहासितं वा जिहानः, प्राप्तप्राप्यप्रकर्षारम्भः संभोगशृङ्गाराख्यां लभते / स चतुर्धा-प्रथमानुरागानन्तरः, मानानन्तरः, प्रवासानन्तरः, करुणानन्तर इति // तेषु प्रथमानुरागान्तरो यथा'पाणिग्गहणे चिंअ पवईअ णा सहीहिं सोहग्गम् / . पसुवइणा वासुइकंकणम्मि ओसारिए दूरम् // 188 // पाणिग्रहण एव पार्वत्या ज्ञातं सखीमिः सौभाग्यम् / / पशुपतिना वासुकिकङ्कणेऽपसारिते दूरम् // ] ------ मानान्तरो यथा 'उन्बहइ दहअगहिआहरोदृझिज्जन्तरोसपडिराअम् / पाणोसरन्तमइरं चैस व णिशं मुहं बाला // 189 // [उद्वहति दयितगृहीताधरौष्ठक्षीयमाणरोषप्रतिरागम् / पानापसरन्मदिरं चषकमिव निजं सुखं बाला // ] प्रवासानन्तरो यथा'मंगलवलअं जी व रखिलं जं पउस्थैवइआइ / पत्तपिअदंसणूससिअबाहुलइआई तं भिण्णम् // 190 // " मङ्गलवलयं जीवितमिव रक्षितं यत्प्रोषितपतिकया। प्राप्तप्रियदर्शनोच्छुसितबाहुलतिकायां तदिन्नम् // ] 1. प्रसाधनग्रह'ग.घ. 2. 'पाणिग्गहणे व्विअ पव्वाएँ' गाथासप्त० पाणिग्गइणव्विअ' घ.३.गौडबहोनानि वाक्पतिविरचिवे प्राकृतकाम्ये 'फलियचसयं इमा वयणे' पाठः, 'स्फटिकचाकमेषा वदनम्' इति छाया च. 4. 'चपशिबहआप' क.स. ५.सं मीए' ख.