________________ काव्यमाला / हीनपात्रादिषु चैतदाभासा भवन्ति / तत्र हीनपात्रेषु पुंसि प्रेमानुरागो यथा 'कअलीगब्भसरिच्छे ऊरू दट्टण हलिअसोण्हाए / उल्ललइ णहरंजणं चंदिलस्स सेउल्लिअकरस्स // 18 // कदलीगर्भसदृक्षे ऊरू दृष्ट्वा हालिकनुषायाः / आर्दीभवति नखरञ्जनं नापितस्य खेदार्दितकरस्य // ] . अत्रैव स्त्रियां मानो यथा'पढमघरिणीअ समअं उअ पिंडारे दरं कुणन्तम्मि / णवबहुआइ सरोसं सव्व च्चिअ वच्छला मुक्का // 185 // [प्रथमगृहिण्या समकं पश्याभीरे भयं कुर्वति / नववध्वा सरोषं सर्वेऽपि च वत्सका मुक्ताः // ] तिर्यक्षु पक्षिणि प्रवासो यथा'आपृच्छामि व्यथयति मनो दुर्बला वासरश्री रेखालिङ्ग क्षपय रजनीमेकिका चक्रवाकि / नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवाधीनः सपदि भवतीमखतत्रस्त्यजामि // 186 // . अत्रैव करिणि करुणो यथा'नान्तर्वर्तयति ध्वनसु जलदेष्वामन्द्रमुद्गर्जितं नासन्नात्सरसः करोति कवलानावर्जितैः शैवलैः / दानज्यानिविषण्णमूकमधुपव्यासङ्गदीनाननो ...... नूनं प्राणसमावियोगविधुरैः स्तम्बेरमस्ताम्यति // 187 // ___ अथ संभोगः। तत्र नायकयोः प्रागसंगतयोः संगतवियुक्तयोर्वा 1. हीनपात्रेषु' घ. 2. चन्दिलो नापितः, चण्डिल इति तु संस्कृतसममिति देशीनाममालाव्याख्या. 3. 'तुह' क., 'तुअ' ख. 4. 'पिण्डार' ख. 5. 'करिणीकरणो' क.ख. 6. 'विधुरस्तम्बरमः' ग.ख.घ.