________________ 5 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 619 स्मितरुदितहसितादीनां हर्षादसकृदेकीकरण किलकिञ्चितं यथा'पाणिपल्लवविधूननमन्तःसीत्कृतानि नयनानिमेषाः / योषितां रहसि गद्दवाचामस्त्रतामुपययुर्मदनस्य // 156 // ' दृष्टजनकथायां तद्भावभावनोत्थितविकारो मोट्टायितं यथा'तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः / घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया // 15 // केशस्तनाधरादिग्रहणाद्दुःखेऽपि सुखबुद्धिचेष्टा कुट्टमितं यथा'हीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य / आर्पितोष्ठदलमाननपमं योषितो मुकुलिताक्षमधासीत् // 158 // ' अभीष्टप्राप्तावभिमानगर्वसंभावनानादरकृतो विकारो विवोको यथा'निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा / शैलराजतनया समीपगामाललाप विजयामहेतुकम् // 159 // सुकुमारतया करचरणाङ्गन्यासो ललितं यथा'गुरुतरकलन पुरानुनादं सललितनर्तितवामपादपद्मा / इतरदनतिलोलमादधाना पदमथ मम्मथमन्थरं जगाम 160' वक्तव्यसमयेऽपि वचसाभिभाष्य क्रियानुष्ठानं विहृतं यथा'पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् / सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान // 11 // ' बाल्यकौमारयौवनसाधारणो विहारविशेषः क्रीडितं यथा मन्दाकिनीसैकतवेदिकाभिः * सा कन्दुकैः कृत्रिमपुत्रकैश्च / 1. 'घनरोमविभेदाः' ग.२. 'विच्छोको' घ. 3. 'नूपुरानुरावं' ख. 4. 'नुरावं' क.ख.